रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह।। अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम्
तेजोमयं घृतं पुण्यंमहापातकनाशनम्।। विंशत्या घृतकुंभानामुत्तमः स्याद्घृताचलः
दशभिर्मध्यमः प्रोक्तः पंचभिस्त्वधमः स्मृतः।। अल्पवित्तोपि कुर्वीत द्वाभ्यामिह विधानतः
विष्कम्भपर्वतांस्तद्वच्चतुर्भागेन कल्पयेत्।। शालितंडुलपात्राणि कुंभोपरि निवेशयेत्
कारयेत्संहतानुच्चान्यथाशोभं विधानतः।। वेष्टयेच्छुक्लवासोभिरिक्षुदंडफलादिकैः
धान्यपर्वतवत्संर्वं विधानमिह पठ्यते।। अधिवासनपूर्वं हि तद्वद्धोमसुरार्चनम्
प्रभातायां च शर्वर्यां गुरवे विनिवेदयेत्।। विष्कंभपर्वतांस्तद्वदृत्विग्भ्यः शांतमानसः
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसि।। तस्माद्घृतार्चिर्विश्वात्मा प्रीयतामत्र शंकर
यस्मात्तेजोमयं ब्रह्म घृते चैव व्यवस्थितम्।। घृतपर्वतरूपेण तस्मान्नः पाहि भूधर
अनेन विधिना दद्याद्घृताचलमनुत्तमम्।। महापातकयुक्तोपि लोकमायाति शांभवम्
हंससारसयुक्तेन किंकिणीजालमालिना।। विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः
विचरेत्पितृभिः सार्धं यावदाभूतसंप्लवम्।। अथातः संप्रवक्ष्यामि रत्नाचलमनुत्तमम्
मुक्ताफलसहस्रेण पर्वतस्स्यादनुत्तमः।। मध्यमः पंचशतिकस्त्रिशतेनाधमः स्मृतः
चतुर्थांशेन विष्कंभ पर्वताः स्युः समन्ततः।। पूर्वेण वज्रगोमेदैर्दक्षिणेनेंद्रनीलकैः
पुष्यरागैर्युतः कार्यो विद्वद्भिर्गंधमादनः।। वैडूर्यविद्रुमैः पश्चात्संमिश्रो विपुलाचलः
पद्मरागैः स सौवर्णैरुत्तरेणापि विन्यसेत्।। धान्यपर्वतवत्सर्वमत्रापि परिकल्पयेत्
तद्वदावाहनं कृत्वा वृक्षान्देवांश्च कांचनान्।। पूजयेत्पुष्पगन्धाद्यैः प्रभाते स्याद्विसर्जनम्
पूर्ववद्गुरुऋत्विग्भ्य इमं मंत्रमुदीरयेत्।। यथा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः
त्वं च रत्नमयो नित्यमतः पाहि महाचल।। यस्माद्रत्नप्रदानेन तुष्टिमेति जनार्दनः
पूजामंत्रप्रसादेन तस्मान्नः पाहि पर्वत।। अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम्
स याति वैष्णवं लोकममरेश्वरपूजितः।। यावत्कल्पशतं साग्रं वसेत्तत्र नराधिप
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्।। ब्रह्महत्यादिकं किंचिदत्रामुत्राथवा कृतम्
तत्सर्वं नाशमायाति गिरिर्वज्राहतो यथा।। अथातः संप्रवक्ष्यामि रौप्याचलमनुत्तमम्
यत्प्रदानान्नरो याति सोमलोकं नरोत्तम।। दशभिः पलसाहस्रैरुत्तमो रजताचलः
पंचभिर्मध्यमः प्रोक्तस्तदर्धेनाधमः स्मृतः।। अशक्तो विंशतेरूर्द्ध्वं कारयेच्छक्तितः सदा
विष्कंभपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत्।। पूर्ववद्राजतान्कुर्यान्मंदरादीन्विधानतः
कलधौतमयांस्तद्वल्लोकेशान्कारयेद्बुधः।। ब्रह्मविष्ण्वर्कवान्कार्यो नितंबोत्र हिरण्मयः
राजतं स्यात्तदन्येषां पर्वतांना च कांचनम्।। शेषं च पूर्ववत्कुर्याद्धोमजागरणादिकम्
दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम्।। विष्कंभशैलानृत्विग्भ्यः पूज्य वस्त्रविभूषणैः
इमं मंत्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः।। पितॄणां वल्लभं यस्मादिन्दोर्वा शंकरस्य च