यस्मात्सौभाग्यदायिन्या धाम त्वं गुडपर्वत।। निर्मितश्चासि पार्वत्या तस्मान्मां पाहि सर्वदा
अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम्।। संपूज्यमानो गंधर्वैर्गौरीलोके महीयते
पुनः कल्पशतांते च सप्तद्वीपाधिपो भवेत्।। आयुरारोग्यसंपन्नः शत्रुभिश्चापराजितः
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम्।। यस्य प्रदानाद्भवनं वैरिंचं यांति मानवाः
उत्तमः पलसाहस्रो मध्यमः पंचभिः शतैः।। तदर्धेनाधमस्तद्वदल्पवित्तोपि मानवः
दद्यादेकपलादूर्द्ध्वं यथाशक्ति विमत्सरः।। धान्यपर्वतवत्सर्वं विदध्याद्राजसत्तम
विष्कंभशैलांस्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत्।। नमस्ते सर्वबीजाय ब्रह्मगर्भाय वै नमः
यस्मादनंतफलदस्तस्मात्पाहि शिलोच्चय।। यस्मादग्नेरपत्यं त्वं यस्मात्पुत्रो जगत्पतेः
हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम।। अनेन विधिना यस्तु दद्यात्कनकपर्वतम्
स याति परमं ब्रह्म लोकमानंदकारकम्।। तत्र कल्पशतं तिष्ठेत्ततो याति परां गतिम्१५० 1.21.
अथातः संप्रवक्ष्यामि तिलशैलं विधानतः।। यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम्
उत्तमो दशभिर्द्रोणैर्मध्यमः पंचभिः स्मृतः।। त्रिभिः कनिष्ठो राजेंद्र तिलशैलः प्रकीर्तितः
पूर्ववच्चापरं सर्वं विष्कंभपर्वतादिकम्।। दानमंत्रं प्रवक्ष्यामि यथा च नृपपुंगव
यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्भवाः।। तिलाः कुशाश्च माषाश्च तस्माच्छांतिप्रदो भव
हव्यकव्येषु यस्माच्च तिला एव हि रक्षणम्।। लक्ष्मीं च कुरु शैलेंद्र तिलाचल नमोस्तु ते
इत्यामंत्र्य च यो दद्यात्तिलाचलमनुत्तमम्।। स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम्
कार्पासपर्वतश्चैव विंशद्भारैरिहोत्तमः।। दशभिर्मध्यमः प्रोक्तः कनिष्ठः पंचभिर्मतः
भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः।। धान्यपर्वतवत्सर्वमासाद्यं राजसत्तम
प्रभातायां च शर्वर्यां दद्यादिदमुदीरयेत्।। त्वमेवावरणं यस्माल्लोकानामिह सर्वदा
कार्पासाद्रे नमस्तस्मादघौघ ध्वंसनो भव।। इति कार्पासशैलेंद्रं यो दद्याच्छर्वसंनिधौ
रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह।। अथातः संप्रवक्ष्यामि घृताचलमनुत्तमम्
तेजोमयं घृतं पुण्यंमहापातकनाशनम्।। विंशत्या घृतकुंभानामुत्तमः स्याद्घृताचलः
दशभिर्मध्यमः प्रोक्तः पंचभिस्त्वधमः स्मृतः।। अल्पवित्तोपि कुर्वीत द्वाभ्यामिह विधानतः
विष्कम्भपर्वतांस्तद्वच्चतुर्भागेन कल्पयेत्।। शालितंडुलपात्राणि कुंभोपरि निवेशयेत्
कारयेत्संहतानुच्चान्यथाशोभं विधानतः।। वेष्टयेच्छुक्लवासोभिरिक्षुदंडफलादिकैः
धान्यपर्वतवत्संर्वं विधानमिह पठ्यते।। अधिवासनपूर्वं हि तद्वद्धोमसुरार्चनम्
प्रभातायां च शर्वर्यां गुरवे विनिवेदयेत्।। विष्कंभपर्वतांस्तद्वदृत्विग्भ्यः शांतमानसः
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसि।। तस्माद्घृतार्चिर्विश्वात्मा प्रीयतामत्र शंकर
यस्मात्तेजोमयं ब्रह्म घृते चैव व्यवस्थितम्।। घृतपर्वतरूपेण तस्मान्नः पाहि भूधर
अनेन विधिना दद्याद्घृताचलमनुत्तमम्।। महापातकयुक्तोपि लोकमायाति शांभवम्