एवमभ्यर्च्य तं मेरुं मंदरं चाभिपूजयेत्।। यस्माच्चैत्ररथेन त्वं भद्राश्वेन च पर्वत
शोभसे मंदर क्षिप्रमतस्तुष्टिकरो भव।। यस्माच्चूडामणिर्जंबूद्वीपे त्वं गंधमादन
गंधर्वगणशोभावांस्ततः कीर्तिर्दृढास्तु मे।। यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च
हिरण्मयाश्मशोभावांस्तस्मात्पुष्टिर्ध्रुवास्तु मे।। उत्तरैः कुरुभिर्यस्मात्सावित्रेण वनेन च
सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे।। एवमामंत्र्य तान्सर्वान्प्रभाते विमले पुनः
स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमं।। विष्कंभपर्वतान्दद्यादृत्विग्भ्यः क्रमशो नृप
गावो देयाश्चतुर्विंशदथवा दश पार्थिव।। शक्तितः सप्तचाष्टौ वा पंच दद्यादशक्तिमान्
एकापि गुरवे देया कपिलाथ पयस्विनी।। पर्वतानामशेषाणामेष एव विधिः स्मृतः
स्वमंत्रेणैव सर्वेषु होमः शैलेषु पठ्यते।। उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते
विधानं सर्वशैलानां क्रमशः शृणु पार्थिव।। दानेषु चैव ये मंत्राः पर्वतेषु यथा फलम्
अन्नं ब्रह्म यतः प्रोक्तमन्नं प्राणाः प्रकीर्तिताः।। अन्नाद्भवंति भूतानि जगदन्नेन वर्धते
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः।। धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्।। मन्वंतरशतं साग्रं देवलोके महीयते
अप्सरोगणगंधर्वैराकीर्णेन विराजितः।। विमानेन दिवः पृष्ठमायाति नृपसत्तम
कर्मक्षये राजराज्यमाप्नोतीह न संशयः।। अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम्
यत्प्रदानान्नरो लोकमाप्नोति शिवसंयुतम्।। उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः
मध्यमश्च तदर्धेन चतुर्भिरधमस्स्मृतः।। वित्तहीनो यथाशक्ति द्रोणादूर्द्ध्वं च कारयेत्
चतुर्थांशेन विष्कंभपर्वतान्कारयेत्पृथक्।। विधानं पूर्ववत्कुर्याद्ब्रह्मादीनां च सर्वदा
तद्वद्धेममयं सर्वलोकपालनिवेशनम्।। सरांसि वनवृक्षादि तद्वच्चान्यान्निनिवेशयेत्
कुर्याज्जागरमत्रापि दानमंत्रान्निबोधत।। सौभाग्यरससंयुक्तो यतोयं लवणे रसः
तदात्मकत्वेन च मां पाह्यापन्नं नगोत्तम।। यस्मादन्ये रसाः सर्वे नोत्कटा लवणं विना
प्रियश्च शिवयोर्नित्यं तस्माच्छांतिप्रदो भव।। विष्णुदेहसमुद्भूतो यस्मादारोग्यवर्धनः
तस्मात्पर्वतरूपेण पाहि संसारसागरात्।। अनेन विधिना यस्तु दद्याल्लवणपर्वतम्
उमालोके वसेत्कल्पं ततो याति परां गतिम्।। अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम्
यत्प्रदानान्नरः स्वर्गं प्राप्नोति सुरपूजितः।। उत्तमो दशभिर्भारैर्मध्यमः पंचभिर्मतः
त्रिभिर्भारैः कनिष्ठः स्यात्तदर्धेनाल्पवित्तवान्।। तद्वदामंत्रणं पूजां हैमवृक्षान्सुरार्चनं
विष्कंभपर्वतांस्तद्वत्सरांसि वनदेवताः।। होमं जागरणं तद्वल्लोकपालाधिवासनम्
धान्यपर्वतवत्कुर्यादिमं मंत्रमुदीरयेत्।। यथा देवेषु विश्वात्मा प्रवरोयं जनार्दनः
सामवेदस्तु वेदानां महादेवस्तु योगिनां।। प्रणवः सर्वमंत्राणां नारीणां पार्वती यथा
तथा रसानां प्रवरः सदैवेक्षुरसो मतः।। मम तस्मात्परां लक्ष्मीं ददातु गुडपर्वतः