तुरीयभागेन चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाढ्यम्।। पूर्वेण मंदरमनेकफलैश्चयुक्तं कामेन कांचनमयेन विराजमानम्१०० 1.21.
याम्येन गंधमदनो विनिवेशनीयो गोधूमसंचयमयः कलधौतवांश्च।। हैमेन यज्ञपतिना घृतमानसेन वस्त्रेणराजतवनैश्च स संयुतः स्यात्
पश्चात्तिलाचलमनेकसुगंधपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम्।। आकारयेद्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे
संस्थाप्यतं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सवस्त्रम्।। पुष्पैश्च हेमवटपादपशेखरं तमाकारयेत्कनककेतुविराजमानम्
माक्षीकभद्रसरसा च वनेन तद्वद्रौप्येण भासुरवितानयुतं विधाय।। होमश्चतुर्भिरथ वेदपुराणविद्भिर्दांतैरनिंद्यचरिताकृतिभिर्द्विजेंद्रैः
पूर्वेण हस्तमितमत्र विधाय कुंडं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च।। रात्रौ च जागरमनुद्धतगीतरूपैरावाहनं च कथयामि शिलोच्चयानाम्
त्वं सर्वदेवगणधामनिधे विरुद्धमस्मद्गृहेष्वमरपर्वत नाशयाशु।। क्षेमं विधत्स्व कुरु शांतिमनुत्तमां च संपूजितः परमभक्तिमता मया हि
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः।। मूर्तामूर्तमयं बीजमतः पाहि सनातन
यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मंदिरम्।। रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे
यस्मादशून्यममरैर्नारीभिश्च शिरस्तव।। तस्मान्मामुद्धरामुष्माद्दुःखसंसारसागरात्
एवमभ्यर्च्य तं मेरुं मंदरं चाभिपूजयेत्।। यस्माच्चैत्ररथेन त्वं भद्राश्वेन च पर्वत
शोभसे मंदर क्षिप्रमतस्तुष्टिकरो भव।। यस्माच्चूडामणिर्जंबूद्वीपे त्वं गंधमादन
गंधर्वगणशोभावांस्ततः कीर्तिर्दृढास्तु मे।। यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च
हिरण्मयाश्मशोभावांस्तस्मात्पुष्टिर्ध्रुवास्तु मे।। उत्तरैः कुरुभिर्यस्मात्सावित्रेण वनेन च
सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे।। एवमामंत्र्य तान्सर्वान्प्रभाते विमले पुनः
स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमं।। विष्कंभपर्वतान्दद्यादृत्विग्भ्यः क्रमशो नृप
गावो देयाश्चतुर्विंशदथवा दश पार्थिव।। शक्तितः सप्तचाष्टौ वा पंच दद्यादशक्तिमान्
एकापि गुरवे देया कपिलाथ पयस्विनी।। पर्वतानामशेषाणामेष एव विधिः स्मृतः
स्वमंत्रेणैव सर्वेषु होमः शैलेषु पठ्यते।। उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते
विधानं सर्वशैलानां क्रमशः शृणु पार्थिव।। दानेषु चैव ये मंत्राः पर्वतेषु यथा फलम्
अन्नं ब्रह्म यतः प्रोक्तमन्नं प्राणाः प्रकीर्तिताः।। अन्नाद्भवंति भूतानि जगदन्नेन वर्धते
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः।। धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्।। मन्वंतरशतं साग्रं देवलोके महीयते
अप्सरोगणगंधर्वैराकीर्णेन विराजितः।। विमानेन दिवः पृष्ठमायाति नृपसत्तम
कर्मक्षये राजराज्यमाप्नोतीह न संशयः।। अथातः संप्रवक्ष्यामि लवणाचलमुत्तमम्
यत्प्रदानान्नरो लोकमाप्नोति शिवसंयुतम्।। उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः
मध्यमश्च तदर्धेन चतुर्भिरधमस्स्मृतः।। वित्तहीनो यथाशक्ति द्रोणादूर्द्ध्वं च कारयेत्
चतुर्थांशेन विष्कंभपर्वतान्कारयेत्पृथक्।। विधानं पूर्ववत्कुर्याद्ब्रह्मादीनां च सर्वदा
तद्वद्धेममयं सर्वलोकपालनिवेशनम्।। सरांसि वनवृक्षादि तद्वच्चान्यान्निनिवेशयेत्
कुर्याज्जागरमत्रापि दानमंत्रान्निबोधत।। सौभाग्यरससंयुक्तो यतोयं लवणे रसः