मंडपं कारयेद्भक्त्या चतुरश्रमुदङ्मुखम्।। प्रागुदक्प्रवणं पुण्यं प्राङ्मुखं वा विधानतः
गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान्।। तन्मध्ये पर्वतं कुयाद्विष्कंभं पर्वतान्वितम्
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः।। मध्यमः पंचशतकैः कनिष्ठश्च त्रिभिः शतैः
मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात्।। मूर्द्धन्यवस्थानमथांबरेण कार्यं त्वनेकं च पुनर्द्विजाग्र्यैः
चत्वारि शृंगाणि च राजतानि नितंबभागा अपि राजतास्स्युः।। पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपद्मरागैः
पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यकपुष्परागैः।। श्रीखंडखंडैरभितः प्रवालैर्लतान्वितो मौक्तिकप्रस्तराढ्यः
ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोप्यत्र हिरण्मयः स्यात्।। तथेक्षुवंशावृतकंदरस्तु घृतोदकप्रस्रवणो दिशासु
शुभ्रांबराण्यंबुधरावलिस्यात्पूर्वेण पीतानि च दक्षिणेन।। वासांसि पश्चादथ कर्बुराणि रक्तानि चैवोत्तरतो घनानि
रौप्यान्महेंद्रप्रमुखांस्तथाऽष्टौ संस्थाप्य लोकाधिपतीन्क्रमेण।। नानावनाली च समंततः स्यान्मनोरमम्माल्यविलेपनं च
वितानकं चोपरि पंचवर्णमम्लानपुष्पाभरणं सितं च।। इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कंभगिरीन्क्रमेण
तुरीयभागेन चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाढ्यम्।। पूर्वेण मंदरमनेकफलैश्चयुक्तं कामेन कांचनमयेन विराजमानम्१०० 1.21.
याम्येन गंधमदनो विनिवेशनीयो गोधूमसंचयमयः कलधौतवांश्च।। हैमेन यज्ञपतिना घृतमानसेन वस्त्रेणराजतवनैश्च स संयुतः स्यात्
पश्चात्तिलाचलमनेकसुगंधपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम्।। आकारयेद्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे
संस्थाप्यतं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सवस्त्रम्।। पुष्पैश्च हेमवटपादपशेखरं तमाकारयेत्कनककेतुविराजमानम्
माक्षीकभद्रसरसा च वनेन तद्वद्रौप्येण भासुरवितानयुतं विधाय।। होमश्चतुर्भिरथ वेदपुराणविद्भिर्दांतैरनिंद्यचरिताकृतिभिर्द्विजेंद्रैः
पूर्वेण हस्तमितमत्र विधाय कुंडं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च।। रात्रौ च जागरमनुद्धतगीतरूपैरावाहनं च कथयामि शिलोच्चयानाम्
त्वं सर्वदेवगणधामनिधे विरुद्धमस्मद्गृहेष्वमरपर्वत नाशयाशु।। क्षेमं विधत्स्व कुरु शांतिमनुत्तमां च संपूजितः परमभक्तिमता मया हि
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः।। मूर्तामूर्तमयं बीजमतः पाहि सनातन
यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मंदिरम्।। रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे
यस्मादशून्यममरैर्नारीभिश्च शिरस्तव।। तस्मान्मामुद्धरामुष्माद्दुःखसंसारसागरात्
एवमभ्यर्च्य तं मेरुं मंदरं चाभिपूजयेत्।। यस्माच्चैत्ररथेन त्वं भद्राश्वेन च पर्वत
शोभसे मंदर क्षिप्रमतस्तुष्टिकरो भव।। यस्माच्चूडामणिर्जंबूद्वीपे त्वं गंधमादन
गंधर्वगणशोभावांस्ततः कीर्तिर्दृढास्तु मे।। यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च
हिरण्मयाश्मशोभावांस्तस्मात्पुष्टिर्ध्रुवास्तु मे।। उत्तरैः कुरुभिर्यस्मात्सावित्रेण वनेन च
सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे।। एवमामंत्र्य तान्सर्वान्प्रभाते विमले पुनः
स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमं।। विष्कंभपर्वतान्दद्यादृत्विग्भ्यः क्रमशो नृप
गावो देयाश्चतुर्विंशदथवा दश पार्थिव।। शक्तितः सप्तचाष्टौ वा पंच दद्यादशक्तिमान्
एकापि गुरवे देया कपिलाथ पयस्विनी।। पर्वतानामशेषाणामेष एव विधिः स्मृतः
स्वमंत्रेणैव सर्वेषु होमः शैलेषु पठ्यते।। उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते
विधानं सर्वशैलानां क्रमशः शृणु पार्थिव।। दानेषु चैव ये मंत्राः पर्वतेषु यथा फलम्