सुवर्णशृंगाभरणौ राजताढ्य खुरौ च तौ।। नानाफलसमायुक्तौ घ्राणगंधकरंडकौ
इत्येवं रचयित्वा तु धूपदीपैस्तथार्चयेत्।। या लक्ष्मीस्सर्वभूतानां या च देवेष्ववस्थिता
धेनुरूपेण सा देवी मम पापं व्यपोहतु।। विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसौ
चंद्रार्कशक्रशक्तिर्या सा धेनुर्वरदास्तु मे।। स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः
सर्वपापहरा धेनुस्तस्माद्भूतिं प्रयच्छ मे।। एवमामंत्र्य तां धेनुं ब्राह्मणाय निवेदयेत्
विधानमेतद्धेनूनां सर्वासामपि पठ्यते।। यास्तु पापविनाशिन्यः पठ्यंते दश धेनवः
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप।। प्रथमा गुडधेनुः स्याद्घृतधेनुरथापरा
तिलधेनुस्तृतीया च चतुर्थी जलनामिका।। क्षीरधेनुः पंचमी च मधुधेनुस्तथापरा
सप्तमी शर्कराधेनुरष्टमी दधिकल्पिता।। रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः
कुंभास्स्यू रसधेनूनामितरासां स्वराशयः।। सुवर्णधेनुं चाप्यत्र केचिदिच्छंति मानवाः
नवनीतेन तैलैश्च तथान्येपि महर्षयः।। एतदेवविधानं स्यात्त एवोपस्करास्स्मृताः
मंत्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि।। यथा श्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः
गुडधेनुप्रसंगेन सर्वास्तव मयोदिताः।। अशेषयज्ञफलदाः सर्वपापहराः शुभाः
व्रतानामुत्तमं यस्माद्विशोकद्वादशीव्रतम्।। तदंगत्वेन चैवात्र गुडधेनुः प्रशस्यते
अयने विषुवे पुण्ये व्यतीपाते तथा पुनः।। गुडधेन्वादयो देया उपरागादिपर्वसु
विशोकद्वादशी चैषा सर्वपापहरा शुभा।। यामुपोष्य नरो याति तद्विष्णोः परमं पदम्
इहलोके स सौभाग्यमायुरारोग्यमेव च।। वैष्णवं पुरमाप्नोति मरणे स्मरणं हरेः
नवार्बुदसहस्राणि दश चाष्टौ च धर्मवित्।। न शोकदुःखदौर्गत्यं तस्य संजायते नृप
नारी वा कुरुते या तु विशोकद्वादशीमिमां।। नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात्
यस्मादग्रे हरेर्नृत्यमनन्तं गीतवादनम् मधुमुरनरकारेरर्चनं वाथ पश्येत्
मतिमपि च जनानां यो ददातीन्द्रलोके भीष्म उवाच।। भगवन्श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्
यदक्षयं परे लोके देवर्षिगणपूजितम् मेरोः प्रदानं वक्ष्यामि दशधा नृपसत्तम
यत्प्रदातानंतलोकान्प्राप्नोति सुरपूजितान्।। पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च
न तत्फलमधीतेषु कृतेष्विह यदश्नुते।। तस्माद्दानं प्रवक्ष्यामि पर्वतानामनुक्रमात्
प्रथमो धान्यशैलः स्यादिद्वतीयो लवणाचलः।। गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः
पंचमस्तिलशैलस्स्यात्षष्टः कार्प्पासपर्वतः।। सप्तमो घृतशैलः स्याद्रत्नशैलस्तथाष्टमः
राजतो नवमस्तद्वद्दशमः शर्कराचलः।। वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः
अयनो वेपुण्ये व्यतीपाते दिनक्षये।। शुक्लपक्षे तृतीयायामुपरागेश शिक्षये
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः।। शुक्लायां पंचदश्यां वा पुण्यर्क्षे वा विधानतः
धान्यशैलादयो देयाः कार्तिक्यां ज्येष्ठपुष्करे।। तीर्थेष्वायतने वापि गोष्ठे वा भवनांगणे