ततस्तु नृत्यगीतानि कारयेत्सकलां निशाम्।। यामत्रये व्यतीते तु तत उत्थाय मानवः
अभिगम्य च विप्राणां मिथुनानि च पूजयेत्।। शक्तितस्त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः
शयनस्थानि पूज्यानि नमोस्तु जलशायिने।। ततस्तु गीतवाद्येन रात्र्यां जागरणे कृते
प्रभाते च ततः स्नानं कृत्वा दांपत्यमर्चयेत्।। भोजयेच्च यथाशक्ति वित्तशाठ्येन वर्जितः
भक्त्याश्रुत्वापुराणानितद्दिनंचातिवाहयेत्।। अनेन विधिना सर्वं मासिमासि समाचरेत्
व्रतांते शयनं दद्याद्गुडधेनुसमन्वितं।। सोपधानं सविश्रामं स्वास्तरावरणं शुभं
यथालक्ष्मीर्नरेश त्वां न परित्यज्य गच्छति।। तथा सुरूपतारोग्यमशोकं चास्तु मे सदा
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित्।। तथा विशोकता मेऽस्तु भक्तिरग्य्रा च केशवे
मंत्रेणानेन शयनं गुडधेनुसमन्वितं।। सूर्यश्च लक्ष्म्या सहितो दातव्यो भूतिमिच्छता
उत्पलं करवीरं वाप्यम्लानं चैव कुंकुमं।। केतकं सिंधुवारं च मल्लिकागंधपाटला
कदंबं कुब्जकं जाती शस्तान्येतानि सर्वदा गुडधेनुविधानं च समाचक्ष्व मुनीश्वर५० 1.21.
किं रूपा केन मंत्रेण दातव्या तदिहोच्यतां गुडधेनुविधानस्य यद्रूपमिह यत्फलम्
तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम्।। कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः।। लघ्वेणकाजिनं तद्वत्वत्सं च परिकल्पयेत्
प्राङ्मुखीं कल्पयेद्धेनुं मृदा वा गां सवत्सकां।। उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयं
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता।। अर्द्धभारेण वत्सस्स्यात्कनिष्ठा भारकेण तु
चतुर्थांशे नवत्सः स्याद्गृहवित्तानुसारतः।। धेनुवत्सौ कृतौ चोभौ सितसूक्ष्मांबरावृतौ
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ।। सितसूत्रसिराजालौ सितकंबलकंबलौ
ताम्रगंडकपृष्ठौ द्वौ सितचामरलोमकौ।। विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ
काञ्चनाक्षियुगोपेताविन्द्रनीलकनीनिकौ।। क्षौमपुच्छौ कांस्यदोहौ शुभ्रातिकमनीयकौ
सुवर्णशृंगाभरणौ राजताढ्य खुरौ च तौ।। नानाफलसमायुक्तौ घ्राणगंधकरंडकौ
इत्येवं रचयित्वा तु धूपदीपैस्तथार्चयेत्।। या लक्ष्मीस्सर्वभूतानां या च देवेष्ववस्थिता
धेनुरूपेण सा देवी मम पापं व्यपोहतु।। विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसौ
चंद्रार्कशक्रशक्तिर्या सा धेनुर्वरदास्तु मे।। स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः
सर्वपापहरा धेनुस्तस्माद्भूतिं प्रयच्छ मे।। एवमामंत्र्य तां धेनुं ब्राह्मणाय निवेदयेत्
विधानमेतद्धेनूनां सर्वासामपि पठ्यते।। यास्तु पापविनाशिन्यः पठ्यंते दश धेनवः
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप।। प्रथमा गुडधेनुः स्याद्घृतधेनुरथापरा
तिलधेनुस्तृतीया च चतुर्थी जलनामिका।। क्षीरधेनुः पंचमी च मधुधेनुस्तथापरा
सप्तमी शर्कराधेनुरष्टमी दधिकल्पिता।। रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः
कुंभास्स्यू रसधेनूनामितरासां स्वराशयः।। सुवर्णधेनुं चाप्यत्र केचिदिच्छंति मानवाः