हेमवृक्षामरैः सार्द्धं यथावद्विधिपूर्वकं।। शूद्रः सुवर्णकारश्च कर्मकृत्सोऽभवत्तदा
भृत्यो लीलावतीगेहे तेन हैमा विनिर्मिताः।। तरवो हेमपुष्पाश्च श्रद्धायुक्तेन पार्थिव
अतिरूपेण संपन्ना घटितास्ते सुशोभनाः।। धर्मकार्यमिति ज्ञात्वा न गृहीतं च वेतनम्
उज्ज्वालिताश्च ते पत्न्या सुवर्णमयपादपाः।। लीलावतीगृहे चापि परिचर्या च पार्थिव
कृता ताभ्यामशाठ्येन द्विजशुश्रूषणादिका।। सा च लीलावती वेश्या कालेन महतानघ
सर्वपापविनिर्मुक्ता जगाम शिवमंदिरम्।। योऽसौ सुवर्णकारश्च दरिद्रोप्यतिसत्त्ववान्
न मूल्यमादाद्वेश्यातः स भवानिह सांप्रतम्।। सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः
यया सुवर्णकारस्य तरवो हेमनिर्मिताः।। सम्यगुज्ज्वलिताः पत्न्या सेयं भानुमती तव
तस्मान्नृलोकेष्वपराजितस्त्वमारोग्यसौभाग्ययुता च लक्ष्मीः।। तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्नृपते कुरुष्व
पुलस्त्य उवाच धान्याचलादीन्विधिनास्मरारेर्लोकं गतोसौ सुरपूज्यमानः
पश्येद्यदीमानुपनीयमानान्स्पृशेन्मनुष्यैरिह दीयमानान्।। शृणोति भक्त्याथ मतिं ददाति विकल्मषः सोपि दिवं प्रयाति
दुःस्वप्नप्रशममुपैति पठ्यमानैः शैलेंद्रैर्भवभयभेदनैर्मनुष्यः।। यः कुर्यात्किमु नृपपुंगवेह सम्यक्शांतात्मा सकलगिरींद्रसंप्रदानम्
भीष्म उवाच विभवध्रुवकारिभूतलेस्मिन्भवभीतेरपि सूदनं च पुंसः
पुलस्त्य उवाच तव भक्तिमतस्तथापि वक्ष्ये व्रतमिंद्रासुरमानवेषु गुह्यम्
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम्।। दशम्यां लघुभुग्विद्वान्प्रारभेत यमेन तु
उदङ्मुखः प्राङ्मुखो वा दंतधावनपूर्वकम्।। एकादश्यां निराहारः सम्यगभ्यर्च्य केशवम्
श्रियं चाभ्यर्च्य विधिवद्भोक्ष्येऽहं चापरेहनि।। एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः
स्नानं सर्वौषधैः कुर्यात्पंचगव्यजलेन तु।। शुभ्रमाल्यांबरधरःपूजयेच्छ्रीशमुत्पलैः
विशोकाय नमः पादौ जंघे च वरदाय वै।। श्रीशाय जानुनी तद्वदूरू च जलशायिने
कंदर्पाय नमो गुह्यं माधवाय नमः कटिं।। दामोदरायेत्युदरं पार्श्वे च विपुलायवै
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै।। श्रीधराय विभोर्वक्षः करौ मधुभिदे नमः
वैकुण्ठाय नमः कंठमास्यं पद्ममुखायवै।। नासामशोकनिधये वासुदेवाय चाक्षिणी
ललाटं वामनायेति हरये च पुनर्भ्रुवौ।। अलकं माधवायेति किरीटं विश्वरूपिणे
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत्।। एवं संपूज्य गोविंदं धूपमाल्यानुलेपनैः
ततस्तु मंडलं कृत्वा स्थंडिलं कारयेन्मृदा।। चतुरश्रं समंताच्च रत्निमात्रमुदक्प्लवम्
श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतम्।। त्रिरंगुलोच्छ्रितावप्रास्तद्विस्तारो द्विरंगुलः३४ (पा. – च्छिता) नदी वालुकया सूर्ये लक्ष्म्याः प्रतिकृतिं न्यसेत्
स्थंडिले सूर्यमध्यस्थ लक्ष्मीमभ्यर्चयेद्बुधः।। नमो देव्यै नमः शांत्यै नमो लक्ष्म्यै नमः श्रिये
नमस्तुष्ट्यै नमः पुष्ट्यै सृष्ट्यै दृष्ट्यै नमो नमः।। विशोका दुःखनाशा यविशोका वरदास्तु ते
विशोका मेस्तु संपत्त्यै विशोका सर्वसिद्धये।। ततः शुभ्रांबरैः सूर्यं वेष्ट्य संपूजयेत्फलैः
भक्ष्यैर्नानाविधैस्तद्वत्सुवर्णकमलेन च।। राजतीषु च पात्रीषु न्यसेद्दर्भोदकं बुधः