सप्तवाराभिजप्तेन करसंपुटयोजितम्। मूर्ध्नि कुर्याज्जलं भूयस्त्रिचतुःपंचसप्तधा
स्नानं कुर्यान्मृदातद्वदामंत्र्य तु विधानतः। अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्। उद्धृतासि वराहेण कृष्णेन शतबाहुना
नमस्ते सर्वलोकानां प्रभवोरणि सुव्रते। एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः
उत्थाय वाससी शुभ्रे शुद्धे तु परिधाय वै। ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै
ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतीन्। देवायक्षास्तथा नागा गंधर्वाप्सरसां गणाः
क्रूरास्सर्पाः सुपर्णाश्च तरवो जंभकादयः। विद्याधरा जलधरास्तथैवाकाशगामिनः
निराधाराश्च ये जीवा पापधर्मरताश्च ये। तेषामाप्यायनायैतद्दीयते सलिलं मया
कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः। मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा
सनकश्च सनंदश्च तृतीयश्च सनातनः। कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा
सर्वे ते तृप्तिमायांतु मद्दत्तेनांबुना सदा। मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम्
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च। देवब्रह्मऋषीन्सर्वांस्तर्पयेत्साक्षतोदकैः
अपसव्यं ततः कृत्वा सव्यं जानु च भूतले। अग्निष्वात्तांस्तथा सौम्यान्हविष्मंतस्तथोष्मपान्
सुकालिनो बर्हिषदस्तथा चैवाज्यपान्पुनः। संतर्पयेत्पितॄन्भक्त्या सतिलोदकचंदनैः
सदर्भपाणिर्विधिना पितॄंन्स्वांस्तर्पयेतत्तः। पित्रादीन्नामगोत्रेण तथा मातामहानपि
संतर्प्य विधिवद्भक्त्या इमं मंत्रमुदीरयेत्। यो बांधवा बांधवा ये येन्यजन्मनि बांधवाः
ते तृप्तिमखिलायां तु येप्यस्मत्तोयकांक्षिणः। आचम्य विधिना सम्यगालिखेत्पद्ममग्रतः
साक्षताद्भिस्सपुष्पाभिः सतिलारुणचंदनैः। अर्घ्यं दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः
नमस्ते विश्वरूपाय नमस्ते विष्णुरूपिणे। सर्वदेवनमस्तेस्तु प्रसीद मम भास्कर
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते। एवं सूर्यं नमस्कृत्य त्रिः कृत्वा च प्रदक्षिणम्
द्विजं गां कांचनं चैव दृष्ट्वा स्पृष्ट्वा गृहं व्रजेत्। स्वगेहस्थां ततः पुण्यां प्रतिमां चापि पूजयेत्
भोजनं च ततः पश्चाद्द्विजपूर्वं च कारयेत्। अनेन विधिना सर्वॠषयः सिद्धिमागताः
पुलस्त्य उवाच सुहृच्छक्रस्य निहता येन दैत्यास्सहस्रशः
सोमसूर्यादयो यस्य तेजसा विगतप्रभाः।। भवंति शतशो येन दानवाश्च पराजिताः
यथेच्छरूपधारी च मानुषोप्यपराजितः।। तस्य भानुमती भार्या सती त्रैलोक्यसुंदरी
लक्ष्मीसदृशरूपेण निर्जितामरसुंदरी।। राज्ञस्तस्याग्रमहिषी प्राणेभ्योपि गरीयसी
दशनारीसहस्राणां मध्ये श्रीरिव राजते।। नृपकोटिसहस्रेण न कदाचित्समुच्यते
कदाचिदास्थानगतः पप्रच्छ स्वपुरोहितम्।। विस्मयेनावृतो नत्वा वसिष्ठमृषिसत्तमम्
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा।। कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम्
वसिष्ठ उवाच तया दत्तश्चतुर्दश्यां पुष्करे लवणाचलः