वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम्। हैमं पलद्वयादूर्द्ध्वं रथमश्वयुगान्वितम्
दद्यात्कृतोपवासः स दिवि कल्पशतं वसेत्। तदंते राजराजस्स्यादश्वव्रतमिदं स्मृतम्
तद्वद्धेमरथं दद्यात्करिभ्यां संयुतं पुनः। सत्यलोके वसेत्कल्पं सहस्रमपि भूमिपः
भवेदिहागतो भूम्यां करिव्रतमिदं स्मृतम्। दशम्यामेकभक्ताशी समाप्ते दशधेनुदः
दीपं च कांचनं दद्याद्ब्रह्माण्डाधिपतिर्भवेत्। एतद्विश्वव्रतं नाम महापातकनाशनम्
कन्यादानं तु कार्तिक्यां पुष्करे यः करिष्यति। एकविंशद्गुणोपेतो ब्रह्मलोकं गमिष्यति
कन्यादानात्परं दानं नैव चास्त्यधिकं क्वचित्। पुष्करे तु विशेषेण कार्तिक्यां तु विशेषतः
विप्राय विधिवद्देयं तेषां लोकोक्षयो भवेत्। तिलपिष्टमयं कृत्वा गजं रत्नसमन्वितम्
विप्राय ये प्रयच्छंति जलमध्ये स्थिता नराः। तेषां चैवाक्षयो लोको भविता भूतसंप्लवम्
यः पठेच्छृणुयाद्वापि व्रतषष्ठिमनुत्तमाम्। मन्वंतरशतं सोपि गंधर्वाधिपतिर्भवेत्
षष्ठिव्रतं भारत पुण्यमेतत्तवोदितं विश्वजनीनमद्य। श्रोतुं यदीच्छा तवराजराज शृणु द्विजातेः करणीयमेतत्
नैर्मल्यं भावशुद्धिश्चविनास्नानं न विद्यते। तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत्। तीर्थं प्रकल्पयेद्विद्वान्मूलमंत्रेण मंत्रवित्
नमो नारायणायेति मूलमंत्र उदाहृतः। सदर्भपाणिर्विधिना आचांतः प्रयतः शुचिः
चतुर्हस्तसमायुक्तं चतुरश्रं समंततः। प्रकल्प्यावाहयेद्गंगामेभिर्मंत्रैर्विचक्षणः
विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता। त्राहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात्
तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्। दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि
नंदिनीत्येव ते नाम देवेषु नलिनीति च। दक्षा पृथ्वी च सुभगा विश्वकाया शिवासिता
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी। क्षेमा च जाह्नवी चैव शांता शांतिप्रदायिनी
एतानि पुण्यनामानि स्नानकाले प्रकीर्त्तयेत्। भवेत्सन्निहिता तत्र गंगा त्रिपथगामिनी१५० 1.20.
सप्तवाराभिजप्तेन करसंपुटयोजितम्। मूर्ध्नि कुर्याज्जलं भूयस्त्रिचतुःपंचसप्तधा
स्नानं कुर्यान्मृदातद्वदामंत्र्य तु विधानतः। अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्। उद्धृतासि वराहेण कृष्णेन शतबाहुना
नमस्ते सर्वलोकानां प्रभवोरणि सुव्रते। एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः
उत्थाय वाससी शुभ्रे शुद्धे तु परिधाय वै। ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै
ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतीन्। देवायक्षास्तथा नागा गंधर्वाप्सरसां गणाः
क्रूरास्सर्पाः सुपर्णाश्च तरवो जंभकादयः। विद्याधरा जलधरास्तथैवाकाशगामिनः
निराधाराश्च ये जीवा पापधर्मरताश्च ये। तेषामाप्यायनायैतद्दीयते सलिलं मया
कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः। मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा
सनकश्च सनंदश्च तृतीयश्च सनातनः। कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा