कृत्वा समांते सौवर्णं विष्णोः पदमवाप्नुयात्। एतत्कृष्णव्रतं नाम कल्पांते राज्यलाभकृत्
पायसाशी समांते तु दद्याद्विप्राय गोयुगम्। लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतं
सप्तम्यां नक्तभुग्दद्यात्समाप्ते गां पयस्विनीं। सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम्
चतुर्थ्यां नक्तभुग्दद्याद्धेमंते गोयुगं तथा। एतद्वैनायकं नाम शिवलोकफलप्रदम्
महाफलानि यस्त्यक्त्वा चातुर्मास्ये द्विजातये। हैमानि कार्तिकेदद्याद्धोमान्ते गोयुगं तथा
एतत्सौरव्रतं नाम सूर्यलोकफलप्रदम्। द्वादशाद्वादशीर्यस्तु समाप्योपोषणे नृप
गोवस्त्रकांचनैर्विप्रान्पूजयेच्छक्तितो नरः। परं पदमवाप्नोति विष्णुव्रतमिदं स्मृतम्
चतुर्दश्यां तु नक्ताशी समान्ते गोयुगप्रदः। शैवं पदमवाप्नोति त्रैयंबकमिदं स्मृतम्
सप्तरात्रोषितो दद्याद्घृतकुंभं द्विजातये। वरव्रतमिदं प्राहुर्ब्रह्मलोकफलप्रदम्
असौ काशीं समासाद्य धेनुं दत्ते पयस्विनीम्। शक्रलोके वसेत्कल्पमिदं मंत्रव्रतं स्मृतम्
मुखवासं परित्यज्य समांते गोप्रदो भवेत्। वारुणं लोकमाप्नोति वारुणव्रतमुच्यते
चांद्रायणं च यः कुर्याद्धैमं चंद्रं निवेदयेत्। चंद्रव्रतमिदं प्रोक्तं चंद्रलोकफलप्रदम्
ज्येष्ठे पंचतपा योंते हेमधेनुप्रदो दिवम्। यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम्
सकृद्विधानकं कुर्यात्तृतीयायां शिवालये। समाप्ते धेनुदो याति भवानीव्रतमुच्यते
माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत्। दिविकल्पं वसित्वेह राजा स्यात्पवनव्रतम्
त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम्। आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम्
त्रिसंध्यं पूज्य दांपत्यमुपवासी विभूषणैः। ददन्मोक्षमवाप्नोति मोक्षव्रतमिदं स्मृतम्
दत्त्वासितद्वितीयायामिंदौ लवणभाजनम्। समाप्ते गोप्रदो याति विप्राय शिवमंदिरम्
कांस्यं सवस्त्रं राजेन्द्र दक्षिणासहितं तथा। समाप्ते गां च यो दद्यात्स याति शिवमंदिरम्
कल्पांते राजराजस्स्यात्सोमव्रतमिदं स्मृतम्। प्रतिपत्स्वेकभक्ताशी समाप्ते च फलप्रदः
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम्। हैमं पलद्वयादूर्द्ध्वं रथमश्वयुगान्वितम्
दद्यात्कृतोपवासः स दिवि कल्पशतं वसेत्। तदंते राजराजस्स्यादश्वव्रतमिदं स्मृतम्
तद्वद्धेमरथं दद्यात्करिभ्यां संयुतं पुनः। सत्यलोके वसेत्कल्पं सहस्रमपि भूमिपः
भवेदिहागतो भूम्यां करिव्रतमिदं स्मृतम्। दशम्यामेकभक्ताशी समाप्ते दशधेनुदः
दीपं च कांचनं दद्याद्ब्रह्माण्डाधिपतिर्भवेत्। एतद्विश्वव्रतं नाम महापातकनाशनम्
कन्यादानं तु कार्तिक्यां पुष्करे यः करिष्यति। एकविंशद्गुणोपेतो ब्रह्मलोकं गमिष्यति
कन्यादानात्परं दानं नैव चास्त्यधिकं क्वचित्। पुष्करे तु विशेषेण कार्तिक्यां तु विशेषतः
विप्राय विधिवद्देयं तेषां लोकोक्षयो भवेत्। तिलपिष्टमयं कृत्वा गजं रत्नसमन्वितम्
विप्राय ये प्रयच्छंति जलमध्ये स्थिता नराः। तेषां चैवाक्षयो लोको भविता भूतसंप्लवम्
यः पठेच्छृणुयाद्वापि व्रतषष्ठिमनुत्तमाम्। मन्वंतरशतं सोपि गंधर्वाधिपतिर्भवेत्