दिनं पयोव्रतं तिष्ठेत्स याति परमं पदम्। एतद्वै सुव्रतं नाम पुनरावृत्तिदुर्लभम्
त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम्। पलादूर्ध्वं यथाशक्ति तण्डुलप्रस्थसंयुतम्१०० 1.20.
दत्त्वा ब्रह्मपदं याति भीमव्रतमिदं स्मृतम्। मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम्
स वैष्णवपदं याति भीमव्रतमिदं स्मृतम्। दद्याद्विंशत्पलादूर्ध्वं महीं कृत्वा तु काञ्चनीम्
दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते। धनप्रदमिदं प्रोक्तं सप्तकल्पशतानुगम्
माघेमास्यथ चैत्रे वा गुडधेनुप्रदो भवेत्। गुडव्रतं तृतीयायां गौरीलोके महीयते
महाव्रतमिदं नाम परमानन्दकारकम्। पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम्
स ब्रह्मलोकमाप्नोति देवासुरसुपूजितः। कल्पान्ते सर्वराजा स्यात्प्रभाव्रतमिदं स्मृतम्
इंधनं यो ददेद्विप्रे वर्षादींश्चतुरस्त्वृतून्। घृतधेनुप्रदोंते च स परं ब्रह्म गच्छति
वैश्वानरव्रतं नाम सर्वपापप्रणाशनम्। एकादश्यां तु नक्ताशी यश्चक्रं विनिवेदयेत्
कृत्वा समांते सौवर्णं विष्णोः पदमवाप्नुयात्। एतत्कृष्णव्रतं नाम कल्पांते राज्यलाभकृत्
पायसाशी समांते तु दद्याद्विप्राय गोयुगम्। लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतं
सप्तम्यां नक्तभुग्दद्यात्समाप्ते गां पयस्विनीं। सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम्
चतुर्थ्यां नक्तभुग्दद्याद्धेमंते गोयुगं तथा। एतद्वैनायकं नाम शिवलोकफलप्रदम्
महाफलानि यस्त्यक्त्वा चातुर्मास्ये द्विजातये। हैमानि कार्तिकेदद्याद्धोमान्ते गोयुगं तथा
एतत्सौरव्रतं नाम सूर्यलोकफलप्रदम्। द्वादशाद्वादशीर्यस्तु समाप्योपोषणे नृप
गोवस्त्रकांचनैर्विप्रान्पूजयेच्छक्तितो नरः। परं पदमवाप्नोति विष्णुव्रतमिदं स्मृतम्
चतुर्दश्यां तु नक्ताशी समान्ते गोयुगप्रदः। शैवं पदमवाप्नोति त्रैयंबकमिदं स्मृतम्
सप्तरात्रोषितो दद्याद्घृतकुंभं द्विजातये। वरव्रतमिदं प्राहुर्ब्रह्मलोकफलप्रदम्
असौ काशीं समासाद्य धेनुं दत्ते पयस्विनीम्। शक्रलोके वसेत्कल्पमिदं मंत्रव्रतं स्मृतम्
मुखवासं परित्यज्य समांते गोप्रदो भवेत्। वारुणं लोकमाप्नोति वारुणव्रतमुच्यते
चांद्रायणं च यः कुर्याद्धैमं चंद्रं निवेदयेत्। चंद्रव्रतमिदं प्रोक्तं चंद्रलोकफलप्रदम्
ज्येष्ठे पंचतपा योंते हेमधेनुप्रदो दिवम्। यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम्
सकृद्विधानकं कुर्यात्तृतीयायां शिवालये। समाप्ते धेनुदो याति भवानीव्रतमुच्यते
माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत्। दिविकल्पं वसित्वेह राजा स्यात्पवनव्रतम्
त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम्। आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम्
त्रिसंध्यं पूज्य दांपत्यमुपवासी विभूषणैः। ददन्मोक्षमवाप्नोति मोक्षव्रतमिदं स्मृतम्
दत्त्वासितद्वितीयायामिंदौ लवणभाजनम्। समाप्ते गोप्रदो याति विप्राय शिवमंदिरम्
कांस्यं सवस्त्रं राजेन्द्र दक्षिणासहितं तथा। समाप्ते गां च यो दद्यात्स याति शिवमंदिरम्
कल्पांते राजराजस्स्यात्सोमव्रतमिदं स्मृतम्। प्रतिपत्स्वेकभक्ताशी समाप्ते च फलप्रदः