वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत्। एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम्
घृतेन स्नपनं कृत्वा शंभोर्वा केशवस्य वा। अक्षताभिः सपुष्पाभिः कृत्वा गोमयमंडलम्
समांते हेमकमलं तिलधेनुसमन्वितम्। शूलमष्टांगुलं दद्याच्छिवलोके महीयते
सामगायनकं चैव सामव्रतमिहोच्यते। नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः
भोजयित्वा समं दद्याद्धेमकंचुकवाससी। हैमं सिंहं च विप्रा यदद्याच्छिवपदं व्रजेत्
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः। एतद्वीरव्रतं नाम नराणां च सुखप्रदम्
चैत्रादि चतुरोमासाञ्जलं दद्याद्दयान्वितः। व्रतांते मणिकं दद्यादन्नं वस्त्रसमन्वितम्
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते। कल्पांते भूतिजननमानंदव्रतमुच्यते
पंचामृतेन स्नपनं कृत्वा संवत्सरं विभोः। वत्सरांते पुनर्दद्याद्धेनुं पंचामृतान्वितां
विप्राय दद्याच्छंखं च सपदं याति शांकरम्। राजा भवति कल्पांते धृतिव्रतमिदं स्मृतम्
वर्जयित्वा पुमान्मांसं व्रतांते गोप्रदो भवेत्। तद्वद्धेममृगं दद्यात्सोश्वमेधफलं लभेत्
अहिंसाव्रतमित्युक्तं कल्पांते भूपतिर्भवेत्। कल्यमुत्थाय वै स्नानं कृत्वा दांपत्यमर्चयेत्
भोजयित्वा यथाशक्ति माल्यवस्त्रविभूषणैः। सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम्
आषाढादि चतुर्मासं प्रातःस्नायी भवेन्नरः। विप्राय भोजनं दत्वा कार्तिक्यां गोप्रदो भवेत्
स वैष्णवपदं याति विष्णुव्रतमिदं स्मृतम्। अयनादयनं यावद्वर्जयेत्पुष्पसर्पिषी
तदंते पुष्पमन्नानि घृतधेन्वा सहैव तु। दत्वा शिवपदं याति विप्राय घृतपायसम्
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम्। यावत्समं भवेद्यस्तु पंचदश्यां पयोव्रतः
समांते श्राद्धकृद्दद्याद्गाश्च पंच पयस्विनीः। वासांसि च पिशंगानि जलकुंभयुतानि च
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्
कल्पांते राजराजेंद्र पितृव्रतमिदं स्मृतम्। संध्यादीप प्रदो यस्तु घृतैस्तैलं विवर्जयेत्
समांते दीपकं दद्याच्चक्रं शूलं च कांचनम्। वस्त्रयुग्मं च विप्राय स तेजस्वी भवेन्नरः
रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम्। कार्तिकादि तृतीयायां प्राश्य गोमूत्र यावकम्
नक्तं चरेदब्दमेकमब्दान्ते गोप्रदो भवेत्। गौरीलोके वसेत्कल्पं ततो राजा भवेदिह
एतद्रुद्रव्रतं नाम सदा कल्याणकारकम्। वर्जयेच्चतुरो मासान्यस्तु गन्धानुलेपनम्
शुक्तिगन्धाक्षतान्दद्याद्विप्राय सितवाससी। वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम्
वैशाखे पुष्पलवणं वर्जयेदथ गोप्रदः। भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह
एतच्छान्तिव्रतं नाम कीर्तिकामफलप्रदम्। ब्रह्माण्डं काञ्चनं कृत्वा तिलराशि समन्वितम्
घृतेनान्यप्रदो भूत्वा वह्निं संतर्प्य सद्विजम्। संपूज्य विप्रदांपत्यं माल्यवस्त्रविभूषणैः
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति। पुण्येऽह्नि दद्यादपरे ब्रह्म यात्यपुनर्भवम्
एतद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम्। यश्चोभयमुखीं दद्यात्प्रभूतसकलान्विताम्