दत्वा परं पदं याति सौम्यव्रतमिदं स्मृतम्। फाल्गुनादि तृतीयायां लवणं यस्तु वर्जयेत्
समांते शयनं दद्याद्गृहं चोपस्करान्वितम्। संपूज्य विप्रमिथुनं भवानी प्रीयतामिति
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते। संध्यामौनं नरः कृत्वा समांते घृतकुंभकम्
वस्त्रयुग्मं तिलान्घंटां ब्राह्मणाय निवेदयेत्। लोकं सारस्वतं याति पुनरावृत्तिदुर्लभम्
एतत्सारस्वतं नाम रूपविद्याप्रदायकम्। लक्ष्मीमभ्यर्च्य पंचम्यामुपवासी भवेन्नरः
समांते हेमकमलं दद्याद्धेनुसमन्वितम्। स वै विष्णुपदं याति लक्ष्मीः स्याज्जन्मजन्मनि
एतल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनम्। कृत्वोपलेपनं शंभोरग्रतः केशवस्य च
यावदब्दं पुनर्देया धेनुर्जलघटस्तथा। जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत्
एतदायुर्व्रतं नाम सर्वकामप्रदायकम्। अश्वत्थं भास्करं गंगां प्रणम्यैकाग्रमानसः
एकभक्तं नरः कुर्यादब्दमेकं विमत्सरः। व्रतांते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम्
वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत्। एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम्
घृतेन स्नपनं कृत्वा शंभोर्वा केशवस्य वा। अक्षताभिः सपुष्पाभिः कृत्वा गोमयमंडलम्
समांते हेमकमलं तिलधेनुसमन्वितम्। शूलमष्टांगुलं दद्याच्छिवलोके महीयते
सामगायनकं चैव सामव्रतमिहोच्यते। नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः
भोजयित्वा समं दद्याद्धेमकंचुकवाससी। हैमं सिंहं च विप्रा यदद्याच्छिवपदं व्रजेत्
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः। एतद्वीरव्रतं नाम नराणां च सुखप्रदम्
चैत्रादि चतुरोमासाञ्जलं दद्याद्दयान्वितः। व्रतांते मणिकं दद्यादन्नं वस्त्रसमन्वितम्
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते। कल्पांते भूतिजननमानंदव्रतमुच्यते
पंचामृतेन स्नपनं कृत्वा संवत्सरं विभोः। वत्सरांते पुनर्दद्याद्धेनुं पंचामृतान्वितां
विप्राय दद्याच्छंखं च सपदं याति शांकरम्। राजा भवति कल्पांते धृतिव्रतमिदं स्मृतम्
वर्जयित्वा पुमान्मांसं व्रतांते गोप्रदो भवेत्। तद्वद्धेममृगं दद्यात्सोश्वमेधफलं लभेत्
अहिंसाव्रतमित्युक्तं कल्पांते भूपतिर्भवेत्। कल्यमुत्थाय वै स्नानं कृत्वा दांपत्यमर्चयेत्
भोजयित्वा यथाशक्ति माल्यवस्त्रविभूषणैः। सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम्
आषाढादि चतुर्मासं प्रातःस्नायी भवेन्नरः। विप्राय भोजनं दत्वा कार्तिक्यां गोप्रदो भवेत्
स वैष्णवपदं याति विष्णुव्रतमिदं स्मृतम्। अयनादयनं यावद्वर्जयेत्पुष्पसर्पिषी
तदंते पुष्पमन्नानि घृतधेन्वा सहैव तु। दत्वा शिवपदं याति विप्राय घृतपायसम्
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम्। यावत्समं भवेद्यस्तु पंचदश्यां पयोव्रतः
समांते श्राद्धकृद्दद्याद्गाश्च पंच पयस्विनीः। वासांसि च पिशंगानि जलकुंभयुतानि च
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्
कल्पांते राजराजेंद्र पितृव्रतमिदं स्मृतम्। संध्यादीप प्रदो यस्तु घृतैस्तैलं विवर्जयेत्