वैष्णवं स पदं याति नीलव्रतमिदं स्मृतम्। आषाढादिचतुर्मासमभ्यंगं वर्जयेन्नरः
भोजनोपस्करं दद्यात्स याति भवनं हरेः। जनप्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते ५० 1.20.
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्। दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रेण संयुतम्
संपूज्य विप्रमिथुनं गौरी मे प्रीयतामिति। एतद्गौरीव्रतं नाम भवानीलोकदायकम्
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तमथो पुनः। अशोकं कांचनं दद्यादिक्षुयुक्तं दशांगुलम्
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति। कल्पं विष्णुपुरे स्थित्वा विशोकस्स्यात्पुनर्नृप
एतत्कामव्रतं नाम सदा शोकविनाशनम्। आषाढादि व्रते यस्तु वर्जयेद्यः फलाशनम्
चातुर्मास्ये निवृत्ते तु घटं सर्पिर्गुडान्वितम्। कार्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत्
स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम्। वर्जयेद्यस्तु पुष्पाणि हेमंते शिशिरावृते
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च कांचनम्। दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ
दत्वा परं पदं याति सौम्यव्रतमिदं स्मृतम्। फाल्गुनादि तृतीयायां लवणं यस्तु वर्जयेत्
समांते शयनं दद्याद्गृहं चोपस्करान्वितम्। संपूज्य विप्रमिथुनं भवानी प्रीयतामिति
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते। संध्यामौनं नरः कृत्वा समांते घृतकुंभकम्
वस्त्रयुग्मं तिलान्घंटां ब्राह्मणाय निवेदयेत्। लोकं सारस्वतं याति पुनरावृत्तिदुर्लभम्
एतत्सारस्वतं नाम रूपविद्याप्रदायकम्। लक्ष्मीमभ्यर्च्य पंचम्यामुपवासी भवेन्नरः
समांते हेमकमलं दद्याद्धेनुसमन्वितम्। स वै विष्णुपदं याति लक्ष्मीः स्याज्जन्मजन्मनि
एतल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनम्। कृत्वोपलेपनं शंभोरग्रतः केशवस्य च
यावदब्दं पुनर्देया धेनुर्जलघटस्तथा। जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत्
एतदायुर्व्रतं नाम सर्वकामप्रदायकम्। अश्वत्थं भास्करं गंगां प्रणम्यैकाग्रमानसः
एकभक्तं नरः कुर्यादब्दमेकं विमत्सरः। व्रतांते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम्
वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत्। एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम्
घृतेन स्नपनं कृत्वा शंभोर्वा केशवस्य वा। अक्षताभिः सपुष्पाभिः कृत्वा गोमयमंडलम्
समांते हेमकमलं तिलधेनुसमन्वितम्। शूलमष्टांगुलं दद्याच्छिवलोके महीयते
सामगायनकं चैव सामव्रतमिहोच्यते। नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः
भोजयित्वा समं दद्याद्धेमकंचुकवाससी। हैमं सिंहं च विप्रा यदद्याच्छिवपदं व्रजेत्
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः। एतद्वीरव्रतं नाम नराणां च सुखप्रदम्
चैत्रादि चतुरोमासाञ्जलं दद्याद्दयान्वितः। व्रतांते मणिकं दद्यादन्नं वस्त्रसमन्वितम्
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते। कल्पांते भूतिजननमानंदव्रतमुच्यते
पंचामृतेन स्नपनं कृत्वा संवत्सरं विभोः। वत्सरांते पुनर्दद्याद्धेनुं पंचामृतान्वितां
विप्राय दद्याच्छंखं च सपदं याति शांकरम्। राजा भवति कल्पांते धृतिव्रतमिदं स्मृतम्