तन्मूल्यलाभाय पुरं समस्तं भ्रांतं त्वयाशेषमहस्तदासीत्। क्रेता न कश्चित्कमलेषु जातः क्लांतः परं क्षुत्परिपीडितश्च
उपविष्टस्त्वमेकस्मिन्सभार्यो भवनांगणे। ततो रात्रौ भवांस्तत्र अश्रौषीन्मंगलध्वनिं
सभार्यस्तत्र गतवान्यत्रासौ मंगलध्वनिः। तत्र मंडलमध्यस्था विष्णोरर्चाविलोकिता
वेश्यानंगवती नाम बिभ्रती द्वादशीव्रतं। समाप्य माघमासस्य द्वादश्यां लवणाचलं
न्यवेदयत्तु गुरवे शय्यां चोपस्करान्विताम्। अलंकृत्य हृषीकेशं सौवर्णं सममादरात्
सा तु दृष्टा ततस्ताभ्यामिदं च परिचिंतितं। किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः
इति भक्तिस्तदा जाता दंपत्योस्तु नरेश्वर। तत्प्रसंगात्समभ्यर्च्य केशवं लवणाचलं
शय्या च पुष्पप्रकरैः पूजिताभूच्च सर्वशः। अथानंगवती तुष्टा तयोर्धान्यशतत्रयम्
दीयतामादिदेशाथ कलधौतपलत्रयं। न गृहीतं ततस्ताभ्यां महासत्वावलंबनात्
अनंगवत्या च पुनस्तयोरन्नं चतुर्विधं। आनीय व्याहृतं चान्नं भुज्यतामिति भूपते
ताभ्यां च तदपि त्यक्तं भोक्ष्यावः श्वो वरानने। प्रसंगादुपवासो नौ तवाद्यास्तु शुभावहः
जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते। त्वत्प्रसंगाद्भवद्गेहे धर्मलेशोस्तु नाविह
इति जागरणं ताभ्यां तत्प्रसंगादनुष्ठितं। प्रभाते च तया दत्ता शय्या सलवणाचला
ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव तु। वस्त्रालंकारसंयुक्ता गावश्च कनकान्विताः
भोजनं च सुहृन्मित्रदीनांधकृपणैः सह। तच्च लुब्धकदांपत्यं पूजयित्वा विसर्जितम्
स भवान्लुब्धको जातः सपत्नीको नृपेश्वरः। पुष्करप्रकरात्तस्मात्केशवस्य तु पूजनात्
विनष्टाशेषपापस्य तव पुष्करमंदिरं। तस्य सत्यस्य माहात्म्यादलोभतपसा नृप
प्रादात्कामगमं यानं लोकनाथश्चतुर्मुखः। संतुष्टस्तव राजेंद्र पुष्करं त्वं समाश्रय
कल्पं सत्वं समासाद्य विभूतिद्वादशीव्रतं। कुरु राजेंद्र निर्वाणमवश्यं समवाप्स्यसि
एतदुक्त्वा तु स मुनिस्तत्रैवांतरधीयत। राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः
इदमाचरतो राजन्नखंडव्रतता भवेत्। यथाकथंचित्कालेन द्वादशद्वादशीर्नृप
कर्तव्या शक्तितो देव विप्रेभ्यो दक्षिणा नृप। ज्येष्ठे गावः प्रदातव्या मध्यमे भूमिरुत्तमा
कनिष्ठे कांचनं देयमित्येषा दक्षिणा स्मृता। प्रथमं ब्रह्मदैवत्यं द्वितीयं वैष्णवं तथा
तृतीयं रुद्रदैवत्यं त्रयो देवास्त्रिषु स्थिताः। इति कलुषविदारणं जनानां पठति च यस्तु शृणोति चापि भक्त्या
मतिमपि च स याति देवलोके वसति च रोमसमानि वत्सराणि। अथातः संप्रवक्ष्यामि व्रतानामुत्तमं व्रतं
कथितं तेन रुद्रेण महापातकनाशनम्। नक्तमब्दं चरित्वा तु गवासार्धं कुटुंबिने
हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी। एवं यः कुरुते पुण्यं शिवलोके स मोदते
एतदेव व्रतं नाम महापातकनाशनम्। यस्वेकभक्तेन क्षिपेद्धेनुं वृषसमन्विताम्
धेनुं तिलमयीं दद्यात्स पदं याति शांकरम्। एतद्रुद्रव्रतं नाम भयशोकविनाशनम्
यश्च नीलोत्पलं हैमं शर्करापात्रसंयुतम्। एकांतरितनक्ताशी समांते वृषसंयुतम्