सर्वधर्मक्रियाहीनो बिसस्तैन्यं करोति यः। शुनःसख उवाच। न्यायेन वेदानध्येतु गृहस्थोस्तु प्रियातिथिः
सत्यं वदतु वाजस्रं बिसस्तैन्यं करोति यः। अग्निं जुहोतु विधिवद्यज्ञं यजतु नित्यशः
ब्रह्मणस्सदनं यातु बिसस्तैन्यं करोति यः। ऋषय ऊचुः। इष्टमेव द्विजातीनां यदिदं शपथीकृतं
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख। शुनःसख उवाच। मया ह्यंतर्हितान्यासन्बिसानीमानि वो द्विजाः
धर्मं च श्रोतुकामेन जानीध्वं मां च वासवम्। अलोभादक्षयालोका जिता वो मुनिसत्तमाः
विमानमधितिष्ठध्वं गच्छामस्त्रिदशालयम्। ततो महर्षयस्ते तु विज्ञायाथ पुरंदरम्
ऊचुः पुरंदरं चेदं वाक्यं वाक्यविशारदाः। इहागत्य नरो यस्तु मध्यमं पुष्करं विशेत्
त्रिरात्रोपोषितो भूत्वा लभेदावश्यकं फलम्। द्वादशवार्षिकीदीक्षा स्मृता यातु वनौकसां
तस्याः फलं समग्रं च लभेदिह न संशयः। नासौ दुर्गतिमाप्नोति स्वगणैः सह मोदते
विरिञ्चिस्थानमासाद्य तिष्ठेद्वै ब्रह्मणो दिनम्। पुलस्त्य उवाच। इंद्रेण सह संप्रीतास्तदा जग्मुस्त्रिविष्टपम्
एवं विलोभ्यमानास्ते लोभैर्बहुविधैरिह। नैव लोभं तथा चक्रुस्तेन जग्मुस्त्रिविष्टपम्
इदं यः शृणुयान्नित्यमृषीणां चरितं शुभम्। विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते
भीष्म उवाच। अत्याश्चर्यवती रम्या कथेयं पापनाशिनी। विस्तरेण च मे ब्रूहि याथातथ्येन पृच्छतः
माहात्म्यं मध्यमस्यापि ऋषिभिः परिकीर्तितम्। फलं चान्नस्य कथितं माहात्म्यं च दमस्य तु
विष्णुना च पदन्यासः कृतो यत्र महामुने। कनीयसस्तथोत्पत्तिर्यथाभूता वदस्व मे
पुलस्त्य उवाच। पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः। नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः
तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत। कमलं कांचनं दत्तं यथाकामगमं नृप
सप्तद्वीपानि लोकं च यथेष्टं विचरत्सदा। कल्पादौ तु समं द्वीपं तस्य पुष्करवासिना
लोकेन पूजितं तस्मात्पुष्करद्वीपमुच्यते। तदेव ब्रह्मणा दत्तं यानमस्य ततोंबुजम्
पुष्पवाहन इत्याहुस्तस्मात्तं देवदानवाः। नौपम्यमस्तीह जगत्त्रयेपि ब्रह्मांबुजस्थस्य च तस्य राज्ञः
तपोनुभावादथ तस्य राज्ञी नारी सहस्रैरभिवंद्यमाना। नाम्ना च लावण्यवती बभूव या पार्वतीवेष्टतमा भवस्य
तस्यात्मजानामयुतं बभूव धर्मात्मनामग्र्यधनुर्धराणाम्। तदात्मजांस्तानभिवीक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद
सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाक्यमिदं बभाषे। कस्माद्विभूतिरचलामरमर्त्यपूजा जाता कथं कमलजा सदृशी सुराज्ञी
भार्या मयाल्पतपसा परितोषितेन दत्तं ममांबुजगृहं च मुनींद्र धात्रा। यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुंजररथौघजनावृतानां
नालक्ष्यते क्वगतमम्बरगामिभिश्च तारागणेंदुरविरश्मिभिरप्यगम्यम्। तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगं यत्
सर्वैर्मयाथ तनयैरथ वानयापि सद्भार्यया तदखिलं कथय प्रचेतः। सोप्यभ्यधादथ भवांतरितं निरीक्ष्य पृथ्वीपते शृणु तदद्भुतहेतुवृत्तम्
जन्माभवत्तव तु लुब्धकुलेपि घोरं जातस्त्वमप्यनुदिनं किल पापकारी। वपुरप्यभूत्तव पुनः पुरुषांगसंधिदुर्गंधिसत्त्वकुनखाभरणं समंतात्
न च ते सुहृन्न सुतबंधुजनो न तादृक्नैवस्वसा न जननी च तदाभिशस्ता। अतिसंमता परमभीष्टतमाभिमुखी जाता मही शतवयोषिदियं सुरूपा
अभूदनावृष्टिरतीव रौद्रा कदाचनाहारनिमित्तमस्यां। क्षुत्पीडितेन भवता तु यदा न किंचिदासादितं वन्यफलादि भक्ष्यं
अथाभिदृष्टं महदंबुजाढ्यं सरोवरं पंकपरीतरोधः। पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिश नामधेयं