तं सत्सारतमम्मन्ये नास्मिन्सीदति यः पुमान्। एष पैतामहो गुह्यो ब्रह्मराशिस्सनातनः
धर्मस्य नियमो यो हि मया ते कथितो भृशम्। अन्ये च यज्वनां लोका अन्ये चापि तपस्विनां
अन्ये दमवतां लोकास्ते वै परमपूजिताः। एकः क्षमावतां दोषो द्वितीयो नोपपद्यते
यदिदं क्षमया युक्तमशक्तम्मन्यते जनः। न चैष दोषो मंतव्यः क्षमा प्रज्ञावतां बलम्
प्रशमं योभिजानाति इष्टापूर्तं महीयते। यत्क्रोधयुक्तो जपति जुहोति च यदर्चति
सर्वं क्षरति तत्तस्य भिन्नकुंभादिवोदकम्। दमाध्यायमिमं पुण्यं प्रातरुत्थाय यः पठेत्
स धर्मनावमारुह्य दुर्गाण्यति तरिष्यति। दमाध्यायमिमं पुण्यं सततं श्रावयेदिद्वजः
स ब्रह्मलोकमाप्नोति तस्मान्न च्यवते पुनः। श्रूयतां धर्मसर्वस्वं श्रुत्वा चैतत्प्रधार्यताम्
आत्मनः प्रतिकूलानि परेषां न समाचरेत्। मातृवत्परदारांश्च परद्रव्याणि लोष्ठवत्
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति। पचनं वैश्वदेवार्थे परार्थे यच्च जीवितम्
एतद्भवेच्च सर्वस्वं धातूनामिव कांचनम्। सर्वभूतहितं राजन्नधीत्यामृतमश्नुते
एवं वै धर्मसर्वस्वमुक्त्वा ते तु शुनःसखम्। तेनैव सहिताः सर्वे निविष्टास्सरसस्तटे
सरोपश्यन्सुविस्तीर्णं पद्मोत्पलजलावृतम्। तत्रावतारं कृत्वा ते बिसानि च कलापशः
तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जलक्रियाम्। अथोत्तीर्य जलात्तस्मात्ते समेत्य परस्परम्
बिसान्येतान्यपश्यंत इदं वचनमब्रुवन्। ऋषय ऊचुः। केन क्षुधाभितप्तानामस्माकं पापकर्मणाम्
नृशंसेनापनीतानि बिसान्याहारकांक्षिणा। ते शंकमानास्त्वन्योन्यं पर्यपृच्छन्द्विजोत्तमाः
चक्रुश्च निश्चयं सर्वे शपथं प्रति पार्थिव। कश्यप उवाच। सर्वत्र सर्वं हरतु न्यासलोपं करोतु च
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः। दंभेन धर्मं चरतु राजानं चोपसेवताम्
मधुमांसं समश्नातु बिसस्तैन्यं करोति यः। अनृतं भाषतु सदा विषयांश्चोपसेवतु
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति यः। वसिष्ठ उवाच। अनृतौ मैथुनं यातु दिवास्वप्नं निषेवतु
अन्योन्यातिथितामेतु बिसस्तैन्यं करोति यः। एककूपे वसेद्ग्रामे ब्राह्मणो वृषलीपतिः
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः। भरद्वाज उवाच। नृशंसस्सोऽस्तु सर्वेषु समृध्या चाप्यहंकृतः
मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः। प्रत्याक्रोशत्ववाक्रुष्टस्ताडयत्वन्यताडितः३५० 1.19.
विक्रीणातु रसांश्चैव बिसस्तैन्यं करोति यः। गौतम उवाच। अतिथिं त्वागतं प्राप्य पाकभेदं करोतु सः
शूद्रान्नं च सदाश्नातु बिसस्तैन्यं करोति यः। दत्वा दानं कीर्तयतु परभार्यासु तुष्यतु
एकाकीमिष्टमश्नीयाद्बिसस्तैन्यं करोति यः। विश्वामित्र उवाच। नित्यकामपरः सोस्तु दिवसे चैव मैथुनी
नित्यं तु पातकी चैव बिसस्तैन्यं करोति यः। परापवादं वदतु परदारांश्च सेवतु
परनिंदारतश्चास्तु बिसस्तैन्यं करोति यः। मातरं पितरं चैव सोवमन्यतु दुर्मतिः
समातर्यन्यबुद्धिस्याद् बिसस्तैन्यं करोति यः। परपाकं सदाश्नातु परनारीं च सेवतु
वेदविक्रयकृच्चास्तु बिसस्तैन्यं करोति यः। जमदग्निरुवाच। परस्य यातु प्रेष्यत्वं स तु जन्मनि जन्मनि