यद्यधीते षडंगानि वेदतत्त्वार्थविद्द्विजः। दमेन तु विहीनश्च पूज्यत्वं नेह गच्छति
दमेनहीनं न पुनंति वेदा यद्यप्यधीताः सह षड्भिरंगैः। सांख्यं च योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि
अपमानात्तपोवृद्धिः संमानाच्च तपःक्षयः। अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति
पुनराप्यायते धेनुः सतृणैः सलिलैर्यथा। एवं जपैश्च होमैश्च पुनराप्यायते द्विजः
आक्रोशकसमो लोके सुहृदन्यो न विद्यते। यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति
आक्रोशमानान्नाक्रोशेन्मन्युं स्वं विनिवर्तयेत्। सन्नियम्य तदात्मानममृतेनाभिषिंचति
कपालं वृक्षमूलानि कुचेलमसहायता। अनपेक्षा ब्रह्मचर्यं नयन्ति परमां गतिम्
कामक्रोधौ विनिर्जित्य किमरण्ये करिष्यति। अभ्यासेन तु वै शास्त्रं कुलं शीलेन धार्यते
गुणैर्मन्त्रा विधार्यन्ते क्रोधस्सत्त्वेन धार्यते। यस्तु क्रोधं समुत्पन्नं संधारयति चात्मनः
अक्रोधेन जयेद्वीरः कस्तेन सदृशो भुवि। यस्तु क्रोधं समुत्पन्नं संतं संयम्य तिष्ठति
तं सत्सारतमम्मन्ये नास्मिन्सीदति यः पुमान्। एष पैतामहो गुह्यो ब्रह्मराशिस्सनातनः
धर्मस्य नियमो यो हि मया ते कथितो भृशम्। अन्ये च यज्वनां लोका अन्ये चापि तपस्विनां
अन्ये दमवतां लोकास्ते वै परमपूजिताः। एकः क्षमावतां दोषो द्वितीयो नोपपद्यते
यदिदं क्षमया युक्तमशक्तम्मन्यते जनः। न चैष दोषो मंतव्यः क्षमा प्रज्ञावतां बलम्
प्रशमं योभिजानाति इष्टापूर्तं महीयते। यत्क्रोधयुक्तो जपति जुहोति च यदर्चति
सर्वं क्षरति तत्तस्य भिन्नकुंभादिवोदकम्। दमाध्यायमिमं पुण्यं प्रातरुत्थाय यः पठेत्
स धर्मनावमारुह्य दुर्गाण्यति तरिष्यति। दमाध्यायमिमं पुण्यं सततं श्रावयेदिद्वजः
स ब्रह्मलोकमाप्नोति तस्मान्न च्यवते पुनः। श्रूयतां धर्मसर्वस्वं श्रुत्वा चैतत्प्रधार्यताम्
आत्मनः प्रतिकूलानि परेषां न समाचरेत्। मातृवत्परदारांश्च परद्रव्याणि लोष्ठवत्
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति। पचनं वैश्वदेवार्थे परार्थे यच्च जीवितम्
एतद्भवेच्च सर्वस्वं धातूनामिव कांचनम्। सर्वभूतहितं राजन्नधीत्यामृतमश्नुते
एवं वै धर्मसर्वस्वमुक्त्वा ते तु शुनःसखम्। तेनैव सहिताः सर्वे निविष्टास्सरसस्तटे
सरोपश्यन्सुविस्तीर्णं पद्मोत्पलजलावृतम्। तत्रावतारं कृत्वा ते बिसानि च कलापशः
तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जलक्रियाम्। अथोत्तीर्य जलात्तस्मात्ते समेत्य परस्परम्
बिसान्येतान्यपश्यंत इदं वचनमब्रुवन्। ऋषय ऊचुः। केन क्षुधाभितप्तानामस्माकं पापकर्मणाम्
नृशंसेनापनीतानि बिसान्याहारकांक्षिणा। ते शंकमानास्त्वन्योन्यं पर्यपृच्छन्द्विजोत्तमाः
चक्रुश्च निश्चयं सर्वे शपथं प्रति पार्थिव। कश्यप उवाच। सर्वत्र सर्वं हरतु न्यासलोपं करोतु च
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः। दंभेन धर्मं चरतु राजानं चोपसेवताम्
मधुमांसं समश्नातु बिसस्तैन्यं करोति यः। अनृतं भाषतु सदा विषयांश्चोपसेवतु
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति यः। वसिष्ठ उवाच। अनृतौ मैथुनं यातु दिवास्वप्नं निषेवतु