सर्वपापविनिर्मुक्तो गोसहस्रफलं लभेत् । एतद्वः कथितं विप्रा व्रतानां व्रतमुत्तमम् । अर्चयित्वाच्युतं तस्यां विष्णुलोकान्न मुच्यते
ऋषय ऊचुः - व्रतस्यास्य विधिं ब्रूहि परिपूर्णं कथं भवेत् । के मंत्राः के नमस्काराः देवता का प्रकीर्तिता
कथं दानं कथं स्नानं कश्च पूजाविधिः स्मृतः । अर्घार्चनस्य मंत्रं तु कथयस्व यथातथम्
विष्णुरुवाच- श्रूयतां यो विधिः सम्यग्व्रतस्यास्य द्विजर्षभाः । एकादश्यां निराहारः स्थित्वा चैव परेऽहनि
भोक्ष्येऽहं पुंडरीकाक्ष शरणं मे भवाच्युत । इति कृत्वा तु नियमं दंतधावनपूर्वकम्
नालपेत्पतितांश्चौरांस्तथा पाषंडिनो नरान् । दुर्वृत्तान्भिन्नमर्यादान्गुरुदारप्रधर्षकान्
अपराह्णे ततः स्नानं विधिना कारयेद्बुधः । नद्यां तडागे कूपे वा गृहे वा नियतात्मवान्
मृत्तिकालंभनं पूर्वं ततः स्नानं च कारयेत् । अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्
इति मृत्तिकामंत्रः । त्वमंबु सर्वभूतानां जीवनं तनुरक्षकम् । स्वेदजोद्भिज्जजातीनां रसानां पतये नमः
स्नातोऽहं सर्वतीर्थेषु ह्रदप्रस्रवणेषु च । नदीषु देवखातेषु इदं स्नानं तु मे भवेत्
इति स्नानमंत्रः । जामदग्न्यं मुनिं चैव कारयित्वा हिरण्मयम् । माषकस्य सुवर्णस्य तदर्द्धार्द्धेन वा पुनः
गृहमागत्य पूजायाः पूजाहोमं तु कारयेत् । ततश्चामलकीं गच्छेत्सर्वोपस्करसंयुतः
आमलकीं ततो गत्वा परिशोध्य समंततः । स्थापयेत्सततं कुंभमव्रणं मंत्रपूर्वकम्
पंचरत्नसमोपेतं दिव्यगंधाधिवासितम् । छत्रोपानद्युगोपेतं सितचंदनचर्चितम्
स्रग्दामलंबितग्रीवं सर्वधूपविधूपितम् । दीपमालाकुलं कुर्यात्सर्वतः सुमनोहरम्
तस्योपरि न्यसेत्पात्रं दिव्यलाजैः प्रपूरितम् । पात्रोपरि न्यसेद्देवं जामदग्न्यं महाप्रभम्
विशोकाय नमः पादौ जानुनी विश्वरूपिणे । उग्राय च ततोऽप्यूरू कटी दामोदराय च
उदरं पद्मनाभाय उरः श्रीवत्सधारिणे । चक्रिणे वामबाहुं च दक्षिणं गदिने नमः 6.45.
वैकुंठाय नमः कंठमास्यं यज्ञमुखाय वै । नासां विशोकनिधये वासुदेवाय चाक्षिणी
ललाटं वामनायेति रामायेति भ्रुवौ नमः । सर्वात्मने तु तच्छीर्षं नम इत्यभिपूजयेत्
इति पूजामंत्रः । ततो देवाधिदेवाय अर्घं चैव प्रदापयेत् । फलेन चैव शुभ्रेण भक्तियुक्तेन चेतसा
ततो जागरणं कुर्याद्भक्तियुक्तेन चेतसा । नृत्यैर्गीतैश्च वादित्रैर्द्धर्माख्यानैः स्तवैरपि
वैष्णवैश्च तथाख्यानैः क्षपयेत्सर्वशर्वरीम् । प्रदक्षिणां ततः कुर्याद्धात्र्या वै विष्णुनामभिः
अष्टाधिकं शतं चैव अष्टाविंशतिरेव वा । ततः प्रभाते समये कृत्वा नीराजनं हरेः
ब्राह्मणं पूजयित्वा तु सर्वं तस्मै निवेदयेत् । जामदग्न्य घटे तत्र वस्त्रयुग्ममुपानहौ
जामदग्न्यस्वरूपेण प्रीयतां मम केशवः । ततश्चामलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम्
स्नानं कृत्वा विधानेन ब्राह्मणान्भोजयेत्ततः । ततश्च स्वयमश्नीयात्कुटुंबेन समावृतः
एवं कृतेन यत्पुण्यं तत्सर्वं कथयामि ते । सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम्
सर्वयज्ञाधिकं चैव लभते नात्र संशयः । एतद्वः सर्वमाख्यातं व्रतानामुत्तमं व्रतम्