पितरस्तस्य तुष्यंति यावज्जीवं न संशयः। देवद्विजसमीपस्थोन्नस्यदाता विमुच्यते
प्रबुद्धो वा प्रमत्तो वा प्रसंगादागतोपि वा। भक्त्या विरहितो वापि शृण्वन्पापाद्विमुच्यते
दानेन संयुता विप्राः सुखिनो धर्मभागिनः। यमो दमो वै नियमः प्रोक्तस्तत्वार्थदर्शिभिः
ब्राह्मणानां विशेषेण दमो धर्मः सनातनः। दमस्तेजो वर्द्धयति पवित्रो दम उत्तमः
विपाप्मा चैव तेजस्वी पुरुषो दमतो भवेत्। ये केचिन्नियमा लोके ये च धर्माश्शुभान्वयाः
सर्वयज्ञफलं चापि दमस्तेभ्यो विशिष्यते। तपो यज्ञस्तथा दानं दमादेव प्रवर्तते
किमरण्येत्वदांतस्य दांतस्यापि किमाश्रमे। यत्रयत्र वसेद्दांतस्तदरण्यं महाश्रमः
शीलवृत्तसमेतस्य निगृहीतेंद्रियस्य च। आर्जवे वर्तमानस्य आश्रमैः किं प्रयोजनम्
वनेपि दोषाः प्रभवंति रागिणां गृहेपि पंचेंद्रियनिग्रहस्तपः। अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम्
सुकर्मधर्मार्जितजीवितानां सदा च संतुष्य गृहे रतानाम्। जितेंद्रियाणामतिथिप्रियाणां गृहेपि धर्मो नियमस्थितानाम्
न शब्दशास्त्रे निरतस्य मोक्षो न वर्णसंगे निरतस्य चैव। न भोजनाच्छादन तत्परस्य न लोकवृत्तग्रहणेरतस्य
एकांतशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य। अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य
सुखं च दांतः स्वपिति सुखेन प्रतिबुध्यते। समः सर्वेषु भूतेषु मनो यस्य प्रबुध्यते
न रथेन सुखं याति न हयेन न दंतिना। यथात्मना विनीतेन सुखं याति महापथे ३०० 1.19.
न तु कुर्याद्धरिः स्पृष्टः सर्पो वाप्यतिरोषितः। अरिर्वा नित्यसंक्रुद्धो यथात्मा दमवर्जितः
न यमं यममित्याहुरात्मा वै यम उच्यते। आत्मा वै यमितो येन स यमस्तु विशिष्यते
यमो यम इति प्रोक्तो वृथा तूद्विजते जनः। आत्मा वै यमितो येन यमस्तस्य करोति किम्
क्रव्यादेभ्यश्च भूतेभ्योऽदान्तेभ्यश्च सदा भयम्। तेषां विप्रतिषेधार्थं दंडः सृष्टः स्वयंभुवा
दंडो रक्षति भूतानि दंडः पालयते प्रजाः। निवारयति पापिष्ठान्दंडो दुर्जय एव वा
श्यामो युवा लोहिताक्षः सर्वभूतभयावहः। दंडः शास्ता मनुष्याणां यस्मिन्धर्मः प्रतिष्ठितः
अथाश्रमेषु सर्वेषु दम एवोत्तमं व्रतम्। तानि लिंगानि वक्ष्यामि यैर्दांत इति कीर्त्यते
अकार्पण्यमपारुष्यं संतोषः सुविधानता। अनसूया गुरोः पूजा दया भूतेष्वपैशुनम्
षड्भिरेष दमः प्रोक्त ऋषिभिः शांतबुद्धिभिः। दयाधीनौ धर्ममोक्षौ तथा स्वर्गश्च पार्थिव
अपमाने न कुप्येत संमाने न प्रहृष्यति। समदुःखसुखो धीरः स शांत इति कीर्त्यते
शेते सुखं हि शांतस्तु सुखं हि प्रतिबुध्यते। श्रेयस्तरमतस्तिष्ठेदवमन्ता विनश्यति
अपमानितस्तु न ध्यायेत्तस्य पापं कदाचन। स्वधर्ममपि चावेक्ष्य परधर्मं न दूषयेत्
आत्मानमपि जानीयात्परं दोषैस्तु नाक्षिपेत्। मंत्रैर्हीनं क्रियाभिर्वा जन्मनाप्यथवा पुनः
दमश्छादयते सर्वं हीनमंगं पटो यथा। अधीयते निरर्थन्ते नाभिजानंति ये दमम्
श्रुतस्य हि दमो मूलं दमो धर्मः सनातनः। यो ह्यात्मनस्तुलयते सुवर्णं तुलया दमम्
स तेन धृतिमान्ख्यातो न तु द्रव्येण मोहितः। व्रतानामपि सर्वेषां दम एव परायणम्