सुखार्थी पुरुषस्तस्मात्संतुष्टः संततं भवेत्। विश्वामित्र उवाच। कामं कामयमानस्य यदि कामः समृद्ध्यति
अथैनमपरः कामो भूयो विध्यति बाणवत्। न जातुकामः कामानामुपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते। कामानभिलषन्मोहान्न नरः सुखमेधते
श्येनालयतरुच्छायां व्रजन्निव कपिंजलः। चतुस्सागरपर्यन्तां यो भुंक्ते पृथिवीमिमाम्
तुल्याश्मकाञ्चनोयश्च सकृतार्थो न पार्थिवः। जमदग्निरुवाच। प्रतिग्रहसमर्थोपि नादत्ते यः प्रतिग्रहम्
ये लोका दानशीलानां स तानाप्नोति शाश्वतान्। योर्थानिच्छेन्नृपाद्विप्रः शोचितव्यो महर्षिभिः
न स पश्यति मूढात्मा नरके यातनाभयम्। प्रतिग्रहसमर्थोपि न प्रसज्येत्प्रतिग्रहे
प्रतिग्रहेण विप्राणां ब्राह्मं तेजः प्रशाम्यति। प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात्
य एव ददतां लोकास्त एवाप्रतिगृह्णताम्। अरुन्धत्युवाच। बिसतंतुर्यथानित्यमंभस्थस्सततं विशेत्
तृष्णा चैवमनाद्यंता तथा देहगता सदा। या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योसौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखं। चांडाल उवाच। उग्रादितो भयाद्यस्माद्बिभ्यती मे महेश्वराः
बलीयसो दुर्बलवत्तस्माच्चैव बिभेम्यहम्। पशुसख उवाच। यदाचरंति विद्वांसः सदा धर्मपरायणाः
तदेव विदुषा कार्यमात्मनो हितमिच्छता। इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि वै
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः। ततस्ते विचरंतो वै मध्यमं पुष्करं गताः
ददृशुः सहसा प्राप्तं परिव्राजं शुनःसखं। तेनेह सहितास्तत्र गत्वा किंचिद्वनांतरं
सरः परमपश्यंत वृतं पद्मैर्जलाशयम्। निविष्टाः सरसस्तीरे चिंतयंतो गतिं शुभाम्
शुनःसखो मुनीन्सर्वानुवाच क्षुधितांस्तदा। सर्वे वदंतु सहिताः कीदृशी क्षुत्प्रवेदना
तमूचुः सहितास्ते तु परिव्राजं शुनःसखं। ऋषय ऊचुः। शक्तिखड्गगदाभिश्च चक्रतोमरसायकैः
बाधिते वेदना या तु क्षुधया सापि निर्जिता। श्वासकुष्ठक्षयाष्ठीली ज्वरापस्मार शूलकैः
व्याधिभिर्जनिता सापि क्षुधाया नाधिका भवेत्। हिरण्यांगदकेयूरमकुटोज्ज्वलकुंडलाः
क्षुधायां न विराजंते तत्र ये संस्थिता नराः। यथा भूमिगतं तोयं रविरश्मिर्विकर्षति
तद्वच्छरीरजा नाड्यः शोष्यंते जठराग्निना। न शृणोति न चाघ्राति चक्षुषा नैव पश्यति
दह्यते क्षीयते मूढः शुष्यते क्षुधयार्दितः। न पूर्वां दक्षिणां चापि पश्चिमां नोत्तरामपि
न चाधो नैव चोर्द्ध्वं च क्षुधाविष्टो हि विंदति। मूकत्वं बधिरत्वं च जडत्वमथ पंगुता
भैरवत्वममर्यादं क्षुधायां संप्रवर्द्धते। जनकं जननीं पुत्रान्भार्यां दुहितरं तथा
भ्रातरं स्वजनं वापि त्यजति क्षुधयार्दितः। न पितॄन्पूजयेत्सम्यक्देवं चापि गुरुं तथा
ऋषीनुपगतांश्चापि क्षुधाविष्टो न विंदति। एवमन्नविहीनस्य भवंत्येतानि देहिनां
तदेवं संप्रयच्छेत अन्नं श्रद्धासमन्वितः। ब्रह्मभूतस्ततः सोथ ब्रह्मणा सह मोदते
सुसंस्कृतं च योप्यन्नं दद्यादहरहर्द्विजे। यः पठेदन्नदानं तु श्राद्धे चैव विशेषतः
एकाग्रमानसो भूत्वा अमावस्येंदुसंक्षये। भूतोपघातसंपूर्णे श्राद्धे श्रावयते सदा