अथ पर्यचरत्तत्र क्लिश्यमानान्हि तानृषीन्। दृष्ट्वा राजा विषादार्त्तः प्रोवाचेदं वचस्तदा
राजोवाच। प्रतिग्रहो ब्राह्मणानां दृष्टा वृत्तिरनिंदिता। तस्मात्प्रतिग्रहान्मत्तो गृह्णीध्वं मुनिसत्तमाः
वरान्ग्रामान्व्रीहियवान्रसान्रत्नानि कांचनं। गाश्च धेनूश्च तत्सर्वं मा मांसं पचत द्विजाः
ऋषय ऊचुः। राजन्प्रतिग्रहो घोरो मध्वास्वादो विषोपमः। तज्जानतां नः कस्मात्त्वं कुरुषे सम्प्रलोभनं
दशसूना समश्चक्री दशचक्रिसमो ध्वजी। दशध्वजिसमा वेश्या दशवेश्यासमो नृपः
दशसूना सहस्राणि यो वाहयति शौंडिकः। तेन तुल्यस्ततो राजा घोरस्तस्य प्रतिग्रहः
यो राज्ञः प्रतिगृह्णाति ब्राह्मणो लोभमोहितः। तामिस्रादिषु घोरेषु नरकेषु स पच्यते
तद्गच्छ कुशलं तेस्तु सह दानेन पार्थिव। अन्येषां दीयतामेतदित्युक्त्वा ते वनं ययुः
अथ राज्ञःसमादेशात्तत्र गत्वाथ मंत्रिणः। उदुंबराणि व्यकिरन्हेमगर्भाणि भूतले
ततो ह्यन्नं विचिन्वंतो गृह्णंश्चोदुंबराण्यपि। गुरूणि हि विदित्वा तु न ग्राह्याण्यत्रिरब्रवीत्
अत्रिरुवाच। नास्महे मूढविज्ञाना नास्महे मंदबुद्धयः। हैमानीमानि जानीमः प्रतिबुद्धाः स्म ज्ञानिनः
इहैवेदं वसुप्रीत्यै प्रेत्य वैकुंठितोदयं। तस्मान्न ग्राह्यमेवैतत्सुखमानंत्यमिच्छता
शतेनगुणितं निष्कं सहस्रेण समन्वितम्। यश्चान्यतः प्रतीच्छेत्स पापिष्टां लभते गतिम्
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। नूनं नैकस्य पर्याप्तमिति मत्वा शमं व्रजेत्
वसिष्ठ उवाच। तपसां संचयो यस्य द्रव्याणां यस्य संचयः। तपःसंचय एवेह विशिष्टो धनसंचयात्
त्यजतः संचयान्सर्वान्यांति नाशमुपद्रवाः। नहि संचयवान्कश्चिद्दृश्यते निरुपद्रवः
यथायथा न गृह्णाति ब्राह्मणोऽसत्प्रतिग्रहम्। तथा तस्य हि संतोषाद्ब्राह्मं तेजो विवर्द्धते
अकिंचनत्वं राज्यं च तुलया समतोलयत्। अकिंचनत्वमधिकं राज्यादपि हितात्मनः
कश्यप उवाच। अनर्थो ब्राह्मणस्यैष यस्त्वर्थनिचयो महान्
अर्थैश्वर्यविमूढो हि श्रेयसो भ्रश्यते द्विजः। अर्थसंपद्विमोहाय विमोहो नरकाय च
तस्मादर्थमनर्थाख्यं श्रेयोर्थी दूरतस्त्यजेत्। यस्य धर्मार्थमर्थेहा तस्यानीहा गरीयसी
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरं। योर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः
यः परार्थे परित्यागः सोक्षयो मुक्तिलक्षणः। भरद्वाज उवाच। जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः
धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति। चक्षुः श्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा२५० 1.19.
सूच्या सूत्रं यथा वस्त्रे समानयति सूचकः। तद्वत्संसारसूत्रं हि तृष्णासूच्योपनीयते
यथा शृंगं रुरोः काये वर्द्धमाने च वर्द्धते। अनंतपारा दुष्पूरा तृष्णा दुःखशतावहा
अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्। गौतम उवाच। संतुष्टः को न शक्नोति फलैश्चाप्यतिवर्तितुम्
लुब्धइंद्रियलौल्येन संकटान्यवगाहते। सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसं
उपानद्गूढपादस्य तस्य चर्मावृतेव भूः। संतोषामृततृप्तानां यत्सुखं शांतचेतसां
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्। असंतोषः परं दुःखं संतोषः परमं सुखम्