यज्ञपर्वतमारूढो दृष्ट्वा गंगाविनिर्गमम्। उदङ्मुखी देवनदी निर्गता पुष्करं प्रति
अत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः। अश्वमेधफलं तस्य भवत्येव न संशयः
यस्त्वेकं भोजयेद्विप्रं कोटिर्भवति भोजिता। अक्षयं त्वन्नपानं च अत्र दत्तं मुनीश्वर
यो यमिच्छति कामं तु सर्वं तस्य भविष्यति। न वियोनिं व्रजत्यत्र स्नातमात्रो नरो भुवि२०० 1.19.
स्थानानां परमं स्थानं तीर्थानां तीर्थमुत्तमम्। मया दत्तं मुनिश्रेष्ठ भविष्यति न संशयः
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा। अत्रैव स्नातमात्रस्य सर्वमेतत्प्रणश्यति
एवमुक्त्वा तु भगवान्ब्रह्मा लोकपितामहः। जगामामंत्र्य स मुनिमगस्त्यं मुनिसत्तमम्
अगस्त्योपि स्थितस्तत्र आश्रमे स्वे परंतप। अगस्त्यस्याश्रमोत्पत्तिरेषा ते परिकीर्तिता
सप्तर्षीणामाश्रमांश्च कीर्त्तयिष्ये कुरूद्वह। अत्रिश्चैव वसिष्ठोथ पुलस्त्यः पुलहः क्रतुः
अंगिरा गौतमश्चैव सुमतिः सुमुखस्तथा। विश्वामित्रः स्थूलशिराः संवर्तश्च प्रतर्दनः
रैभ्यो बृहस्पतिश्चैव च्यवनः कश्यपो भृगुः। दुर्वासा जमदग्निश्च मार्कण्डेयोथ गालवः
उशनाथ भरद्वाजो यवक्रीतस्तथा मुनिः। स्थूलाक्षः सकलाक्षश्च कण्वो मेधातिथिः कृतः
नारदः पर्वतश्चैव स्वगंधी च्यवनो द्विजः। तृणाम्बु शबलो धौम्यः शतानंदो कृतव्रणः
जमदग्निस्तथा रामो ह्यष्टकश्चैवमादयः। कृष्णद्वैपायनश्चैव पुत्रशिष्यैः समन्वितः
एते तु पुष्करं प्राप्य सप्तर्षीणामथाश्रमे। वेष्टिता नियमैश्चापि दयायुक्तास्तपस्विनः
आनृशंस्यं जयो धैर्यं तपः सत्यं क्षमार्जवम्। दया दानं जपश्चैव सर्वेषां तत्प्रतिष्ठितं
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते। ज्ञात्वा तदित्त्थं मुनयः परमार्थपरायणाः
न तत्र नास्तिका यांति न स्तेना नाजितेंद्रियाः। न नृशंसा न पिशुना न कृतघ्ना न मानिनः
सत्य तेजस्विनः शूरा दयावंतः क्षमापराः। यज्वानो यज्ञशीलाश्च निरीहा निरुपद्रवाः
निर्ममा निरहंकारास्तत्र गच्छंति पुष्करे। न रोगो न जरामृत्युर्भवितात्र महात्मनां
न तत्र मूढा विशंति पुरुषा विषयात्मकाः। कामलोभमदद्रोह क्रोधमोहैरुपद्रुताः
तुल्य मानापमानाश्च निर्द्वंद्वास्संयतेंद्रियाः। ध्यानयोगपराश्चैव ते तु गच्छंति पुष्करं
आश्रमेषु यथोक्तेषु यथोक्तं वै द्विजातयः। ये वर्तंते यमं त्रातुं तेषां लोका महोदयाः
ये न हिंसंति भूतानि कर्मणा मनसा गिरा। अनृशंसतराः संतः सर्वदा च प्रियंवदाः
अग्निहोत्ररता नित्यं नित्यं चातिथिपूजकाः। नित्यं स्वाध्यायवंतश्च नित्यं स्नानपरायणाः
मातृवत्स्वसृवच्चैव तथा दुहितृवच्च ह। परदारान्प्रपश्यंति सततं विगतस्पृहाः
येधिक्षिप्ता न कुप्यंति न हिंसंति च हिंसिताः। समदुःखसुखाः संतो महात्मानो जितेंद्रियाः
ते हि सर्वे प्रपश्यंति पुरा चेरुर्महीमिमां। समाधिना चिंतयंतो ब्रह्मलोकं सनातनं
अथाभवदनावृष्टिः कदाचिन्महती तदा। कृच्छ्रप्रायो ह्यभूत्तत्र सर्वलोकः क्षुधार्दितः
ततो निरन्ने लोकेस्मिंश्चात्मानं ते परीप्सवः। मृतं कुमारमादाय कृच्छ्रप्रायास्तदापचन्