हतशिष्टास्ततः केचित्कालेयदनुजोत्तमाः। विदार्य वसुधां देवीं पातालतलमाश्रिताः
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम्। तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम्। त्वत्तेजसा च निहताः कालेया भीमविक्रमाः
पूरयस्व महाविप्र समुद्रं लोकभावनम्। यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज
एवमुक्तः प्रत्युवाच भगवान्मुनिपुंगवः। जीर्णं तद्धि मया तोयमुपायोन्यः प्रचिंत्यताम्
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः। एवं श्रुत्वा तु वचनं महर्षेर्भावितात्मनः
विस्मिताश्च विषण्णाश्च बभूवुः सहितास्सुराः। परस्परमनुज्ञाप्य प्रणम्य मुनिपुंगवम्
प्रजाः सर्वा महाराज विप्रा जग्मुर्यथागतम्। त्रिदशा विष्णुना सार्द्धमनुजग्मुः पितामहम्
पूरणार्थं समुद्रस्य मंत्रयंतः परस्परम्। ऊचुः प्रांजलयः सर्वे सागरस्य हि पूरणम्
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः। गच्छध्वं विबुधास्सर्वे यथाकामं यथेप्सितम्
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः। ज्ञातींस्तु कारणं कृत्वा महाराजो भगीरथः
गंगौघेन समुद्रं च पुनः संपूरयिष्यति। एवं ते ब्रह्मणा देवाः प्रेषिता ऋषिसत्तमाः
उवाच भगवांस्तुष्टस्त्वगस्त्यमृषिसत्तमम्। देवकार्यं तु भवता दानवानां विनाशनम्
यतस्संतारिता देवास्तेन तुष्टोस्मि वै मुने। अभिप्रेतो वरो यस्ते याचयस्व ददामि तम्
एवमुक्तस्तदागस्त्यः प्रणिपातपुरःसरम्। इहस्थेन मया देव देवकार्यमिदं कृतम्
सर्वाश्रमाणां प्रवरो भवत्वेष ममाश्रमः। त्वया चोक्तस्तु भगवन्भविता नात्र संशयः
ब्रह्मोवाच। यात्रां तु पुष्करे कृत्वा इहागत्य नरास्तु ये। इह कुंडेषु ये स्नानं तर्पणं पितृदेवयोः
अर्चनं चैव देवेषु सर्वमक्षयकारकम्। अर्घ्यं चोच्चावचं गृह्य शष्कुलापूपकांस्ततः
दास्यंति द्विजमुख्येभ्यस्तेषां वासस्त्रिविष्टपे। श्राद्धेन पितरस्तृप्ता यावदाभूतसंप्लवम्
कंदमूलफलैर्वापि तर्पयिष्यति यो मुनिम्। सप्तर्षिस्थानमासाद्य मोदते शास्वतीः समाः
यज्ञपर्वतमारूढो दृष्ट्वा गंगाविनिर्गमम्। उदङ्मुखी देवनदी निर्गता पुष्करं प्रति
अत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः। अश्वमेधफलं तस्य भवत्येव न संशयः
यस्त्वेकं भोजयेद्विप्रं कोटिर्भवति भोजिता। अक्षयं त्वन्नपानं च अत्र दत्तं मुनीश्वर
यो यमिच्छति कामं तु सर्वं तस्य भविष्यति। न वियोनिं व्रजत्यत्र स्नातमात्रो नरो भुवि२०० 1.19.
स्थानानां परमं स्थानं तीर्थानां तीर्थमुत्तमम्। मया दत्तं मुनिश्रेष्ठ भविष्यति न संशयः
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा। अत्रैव स्नातमात्रस्य सर्वमेतत्प्रणश्यति
एवमुक्त्वा तु भगवान्ब्रह्मा लोकपितामहः। जगामामंत्र्य स मुनिमगस्त्यं मुनिसत्तमम्
अगस्त्योपि स्थितस्तत्र आश्रमे स्वे परंतप। अगस्त्यस्याश्रमोत्पत्तिरेषा ते परिकीर्तिता
सप्तर्षीणामाश्रमांश्च कीर्त्तयिष्ये कुरूद्वह। अत्रिश्चैव वसिष्ठोथ पुलस्त्यः पुलहः क्रतुः
अंगिरा गौतमश्चैव सुमतिः सुमुखस्तथा। विश्वामित्रः स्थूलशिराः संवर्तश्च प्रतर्दनः