एवमुक्तस्तदा क्रोधात्प्रवृद्धः सहसाचलः। सूर्याचंद्रमसोर्मार्गं रोद्धुमिच्छन्परंतप
ततो हि देवाः सहितास्तु सर्वे सेंद्राः समागम्य महाद्रिराजम्। निवारयामासुरथोत्पतंतं न वै स तेषां वचनं चकार
ततो हि जग्मुर्मुनिमाश्रमस्थं तपस्विनां धर्मवतां वरिष्ठम्। अगस्त्यमत्यद्भुतदीप्तवीर्यं तं चार्यमूचुः सहिताः सुरास्ते
देवा ऊचुः। सूर्याचंद्रमसोर्मार्गं नक्षत्राणां गतिं तथा। शैलराडावृणोत्येष विंध्यः क्रोधवशानुगः१५० 1.19.
तं निवारयितुं शक्तो नान्यः कश्चिन्मुनीश्वर। तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्
सोभिगम्याब्रवीद्विंध्यं सादरं समुपस्थितम्। मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम
दक्षिणामभिगंतास्मि दिशं कार्येण केनचित्। यावदागमनं मे स्यात्तावत्त्वं प्रतिपालय
निवृत्ते मयि शैलेंद्र ततो वर्धस्व कामतः। पुलस्त्य उवाच। अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते। अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः। अगस्त्यद्वारमासाद्य तन्मे निगदतः शृणु
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्। किमर्थं समुपायाता वरं मत्तः किमिच्छथ
एवमुक्तास्तदा तेन देवास्तं मुनिमब्रुवन्। इच्छाम एकं वरमद्भुतं वयं पिबार्णवं देवमुने महात्मन्
एवं त्वयेच्छेम कृते महर्षे महार्णवं पीयमानं समग्रम्। ततो विहन्याम च सानुबंधं कालेयसंज्ञं सुरविद्विषां बलम्
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्। करिष्ये भवतां कामं लोकानां सुखकारकम्
एवमुक्त्वा ततोऽगच्छत्समुद्रं निधिमंभसाम्। तपःसिद्धैश्च मुनिभिः सार्धं देवैश्च सुव्रत
मनुष्योरगगंधर्वा यक्षाः किंपुरुषास्तथा। अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम्
ततोऽभ्यपश्यत्सहितः समुद्रं भीमनिःस्वनम्। नृत्यंतमिव चोर्मीभिर्वल्गंतमिव वायुना
हसंतमिव फेनौघैः स्खलंतं कंदरेषु च। नानाग्राहसमाकीर्णं नानाद्विजगणैर्युतम्
अगस्त्यसहिता देवाः सगंधर्वमहोरगाः। ऋषयश्च महाभागाः समासेदुर्महोदधिम्
समुद्रं स समासाद्य वारुणिर्भगवानृषिः। उवाच सहितान्देवानृषींस्तांस्तु समागतान्
पातुकामः समुद्रं च अगस्त्य ऋषिसत्तमः। एष लोकहितार्थाय पिबामि वरुणालयम्
भवतां यदनुष्ठेयं तच्छीघ्रं संविधीयताम्। एतावदुक्त्वा वचनं मैत्रावरुणिरग्रतः
समुद्रमपिबत्क्रुद्धस्सर्वलोकस्य पश्यतः। पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः
विस्मयं परमं जग्मुस्स्तुतिभिश्चाप्यपूजयन्। त्वं नस्त्राता विधाता च लोकानां लोकभावनः। त्वत्प्रसादात्समुत्सेधमुपगच्छेत्समं जगत्
संपूज्यमानस्त्रिदशैर्महात्मा गंधर्वमुख्येषु नदत्सु चैव। दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार
दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः। प्रगृह्य दिव्यानि वरायुधानि तान्दानवान्जघ्नुरदीनसत्त्वाः
ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगयुतैर्नदद्भिः। न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम्
ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः। चक्रुः सुतुमुलं युद्धं मुहूर्त्तमिव भारत
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः। यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः
ते हेमनिष्काभरणाः कुंडलांगदधारिणः। निहता बह्वशोभंत पुष्पिता इव किंशुकाः