आजग्मुः परमोद्विग्नास्त्रिदशा मनुजेश्वर। समेत्य समहेंद्रास्तु भयान्मंत्रं प्रचक्रिरे
नारायणं पुरस्कृत्य वैकुंठमपराजितम्। ततो देवास्समेतास्ते तदोचुर्मधुसूदनम्
त्वं नः स्रष्टा च गोप्ता च भर्ता च जगतः प्रभो। त्वया सृष्टं जगत्सर्वं यच्चेंगं यच्च नेङ्गति
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण। वाराहं रूपमास्थाय जगदर्थे समुद्धृता
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा। नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम
अवध्यः सर्वभूतानां बलिश्चापि महासुरः। वामनं वपुरास्थाय त्रैलोक्याद्भ्रंशितस्त्वया
असुरः सुमहेष्वासो जंभ इत्यभिविश्रुतः। यज्ञक्षोभकरः क्रूरस्त्वमरैर्विनिपातितः
एवमादीनि कर्माणि येषां संख्या न विद्यते। अस्माकं भयभीतानां त्वं गतिर्मधुसूदन
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे। रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्
भवत्प्रसादाद्वर्तंते प्रजास्सर्वाश्चतुर्विधाः। स्वस्था भवंति मनुजा हव्यकव्यैर्दिवौकसः
लोका ह्येवं प्रवर्तंते अन्योन्यं च समाश्रिताः। त्वत्प्रभावान्निरुद्विग्नास्त्वयैव परिरक्षिताः
इदं च समनुप्राप्तं लोकानां भयमुत्तम्। जानीमो न च केनैते वध्यंते ब्राह्मणा निशि
ब्राह्मणेषु च क्षीणेषु पृथिवी क्षयमेष्यति। त्वत्प्रसादान्महाबाहो लोकास्सर्वे जगत्पते
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः। विष्णु उवाच। विदितं मे सुरास्सर्वं प्रजायाः क्षयकारणम्
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः। कालकेया इति ख्याता गणाः परमदारुणाः
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता। जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्
ते प्रविश्योदधिं घोरं नानाग्राहसमाकुलम्। उत्सादनार्थं लोकस्य रात्रौ घ्नंति मुनीनिह
न तु शक्याः क्षयं नेतुं समुद्रांतर्हिता हि ते। समुद्रस्य क्षये बुद्धिर्भवद्भिः परिचिंत्यताम्
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्। परमेष्ठिनमासाद्य अगस्त्यस्याश्रमं ययुः
तत्रापश्यन्महात्मानं वारुणं दीप्ततेजसम्। उपास्यमानमृषिभिर्द्देवैरिव पितामहम्
तेभिगम्य महात्मानं मैत्रावरुणिमुत्तमम्। अप्रमत्तं तपोराशिं कर्मभिः स्वैरनुष्ठितैः
देवा ऊचुः। नहुषेणाभितप्तानां लोकानां त्वं गतिः पुरा। भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककंटकः
क्रोधात्प्रवृद्धः स महान्भास्करस्य नगोत्तमः। वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते
तमसाच्छादिते लोके मृत्युनाभ्यर्दिताः प्रजाः। त्वामेव नाथमागम्य निर्वृतिं परमां गताः
अस्माकं भयभीतानां नित्यमेव भवान्गतिः। ततस्त्वद्य प्रयाचामस्त्वां वरं वरदो ह्यसि
भीष्म उवाच। किमर्थं सहसा विंध्यः प्रवृद्धः क्रोधमूर्च्छितः। एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने
पुलस्त्य उवाच। अद्रिराजं महाशैलं मेरुं कनकपर्वतम्। उदयेऽस्तमये भानुः प्रदक्षिणमवर्तत
तं दृष्ट्वा तु तदा विंध्यः शैलः सूर्यमथाब्रवीत्। यथा हि मेरुर्भवता नित्यशः परिगम्यते
प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर। एवमुक्तस्ततः सूर्यः शैलेंद्रं प्रत्यभाषत
नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणम्। एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत्