च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्। फलमूलाशनानां हि मुनीनां भक्षितं शतं
एवं रात्रौ स्म कुर्वंतो विविशुश्चार्णवं दिवा। भरद्वाजाश्रमं गत्वा नियता ब्रह्मचारिणः
वाताहारांबुभक्षाश्च विंशतिश्च निषूदिताः। एवं क्रमेण भक्षार्थं मुनीनां दानवास्तदा
निशायां पर्यधावंत शक्ता भुजबलाश्रयात्। कालेन महता ते वै जघ्नुर्मुनिगणान्बहून्
न चैतानवबुध्यंत मनुजा मनुजाधिप। निस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्
जगदासीन्निरुत्साहं कालेयभयपीडितं। एवं प्रक्षीयमाणास्ते मानवा मनुजेश्वर
आत्मत्राणपरा भीताः प्राद्रवंस्तु दिशो दश। केचिद्गुहां प्रविविशुर्विकीर्णाश्चापरे द्विजाः
अपरे च भयोद्विग्ना भयात्प्राणान्समत्यजन्। केचित्तत्र महेष्वासाः शूराः परमदर्पिताः
मार्गमाणाः परं यत्नंदानवानांप्रचक्रिरे। नचैताननुजग्मुस्ते समुद्रं समुपाश्रितान्
शमं न जग्मुः परममाजग्मुः क्षयमेव च। जगत्प्रशमने जाते नष्टयज्ञोत्सवक्रिये
आजग्मुः परमोद्विग्नास्त्रिदशा मनुजेश्वर। समेत्य समहेंद्रास्तु भयान्मंत्रं प्रचक्रिरे
नारायणं पुरस्कृत्य वैकुंठमपराजितम्। ततो देवास्समेतास्ते तदोचुर्मधुसूदनम्
त्वं नः स्रष्टा च गोप्ता च भर्ता च जगतः प्रभो। त्वया सृष्टं जगत्सर्वं यच्चेंगं यच्च नेङ्गति
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण। वाराहं रूपमास्थाय जगदर्थे समुद्धृता
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा। नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम
अवध्यः सर्वभूतानां बलिश्चापि महासुरः। वामनं वपुरास्थाय त्रैलोक्याद्भ्रंशितस्त्वया
असुरः सुमहेष्वासो जंभ इत्यभिविश्रुतः। यज्ञक्षोभकरः क्रूरस्त्वमरैर्विनिपातितः
एवमादीनि कर्माणि येषां संख्या न विद्यते। अस्माकं भयभीतानां त्वं गतिर्मधुसूदन
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे। रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्
भवत्प्रसादाद्वर्तंते प्रजास्सर्वाश्चतुर्विधाः। स्वस्था भवंति मनुजा हव्यकव्यैर्दिवौकसः
लोका ह्येवं प्रवर्तंते अन्योन्यं च समाश्रिताः। त्वत्प्रभावान्निरुद्विग्नास्त्वयैव परिरक्षिताः
इदं च समनुप्राप्तं लोकानां भयमुत्तम्। जानीमो न च केनैते वध्यंते ब्राह्मणा निशि
ब्राह्मणेषु च क्षीणेषु पृथिवी क्षयमेष्यति। त्वत्प्रसादान्महाबाहो लोकास्सर्वे जगत्पते
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः। विष्णु उवाच। विदितं मे सुरास्सर्वं प्रजायाः क्षयकारणम्
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः। कालकेया इति ख्याता गणाः परमदारुणाः
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता। जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्
ते प्रविश्योदधिं घोरं नानाग्राहसमाकुलम्। उत्सादनार्थं लोकस्य रात्रौ घ्नंति मुनीनिह
न तु शक्याः क्षयं नेतुं समुद्रांतर्हिता हि ते। समुद्रस्य क्षये बुद्धिर्भवद्भिः परिचिंत्यताम्
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्। परमेष्ठिनमासाद्य अगस्त्यस्याश्रमं ययुः
तत्रापश्यन्महात्मानं वारुणं दीप्ततेजसम्। उपास्यमानमृषिभिर्द्देवैरिव पितामहम्