सर्वे च देवा मुदिताः प्रहृष्टाः सहर्षयश्चैनमथो स्तुवंति। शेषांश्च दैत्यांस्त्वरितं समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान्
ते वध्यमानास्त्रिदशैस्तदानीं महासुरा वायुसमानवेगाः। समुद्रमेवाविविशुर्भयार्ताः प्रविश्य चैवोदधिमप्रमेयम्
झषाकुलं रत्नसमाकुलं च तदा स्म मंत्रं सहिताः प्रचक्रुः। तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायान्परिचिंतयंतः
भयार्दिता देवनिकायतप्तास्त्रैलोक्यनाशाय मतिं प्रचक्रुः। तेषां तु तत्र क्षयकालयोगाद्घोरामतिश्चिंतयतां बभूव१०० 1.19.
ये संति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं च कार्यः। लोकाश्च सर्वे तपसा ध्रियंते तस्मात्त्वरध्वं तपसः क्षयाय
ये संति केचिद्धि वसुंधरायां तपस्विनो धर्मविदश्च तज्ज्ञाः। तेषां वधश्चक्रियतां हि क्षिप्रं तेषु प्रणष्टेषु जगद्विनष्टम्
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः। दुर्गंसमाश्रित्य महोर्मिमंतं रत्नाकरं वारुणमालयं स्म
समुद्रं ते समासाद्य वारुणं त्वंभसां निधिं। कालेयास्समपद्यंत त्रैलोक्यस्य विनाशने
ते रात्रौ समभिक्रुद्धा बभक्षुस्तांस्तदा मुनीन्। आश्रमेषु च ये संति पुण्येष्वायतनेषु च
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः। अशीतिः शतमष्टौ च वने चान्ये तपस्विनः
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्। फलमूलाशनानां हि मुनीनां भक्षितं शतं
एवं रात्रौ स्म कुर्वंतो विविशुश्चार्णवं दिवा। भरद्वाजाश्रमं गत्वा नियता ब्रह्मचारिणः
वाताहारांबुभक्षाश्च विंशतिश्च निषूदिताः। एवं क्रमेण भक्षार्थं मुनीनां दानवास्तदा
निशायां पर्यधावंत शक्ता भुजबलाश्रयात्। कालेन महता ते वै जघ्नुर्मुनिगणान्बहून्
न चैतानवबुध्यंत मनुजा मनुजाधिप। निस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्
जगदासीन्निरुत्साहं कालेयभयपीडितं। एवं प्रक्षीयमाणास्ते मानवा मनुजेश्वर
आत्मत्राणपरा भीताः प्राद्रवंस्तु दिशो दश। केचिद्गुहां प्रविविशुर्विकीर्णाश्चापरे द्विजाः
अपरे च भयोद्विग्ना भयात्प्राणान्समत्यजन्। केचित्तत्र महेष्वासाः शूराः परमदर्पिताः
मार्गमाणाः परं यत्नंदानवानांप्रचक्रिरे। नचैताननुजग्मुस्ते समुद्रं समुपाश्रितान्
शमं न जग्मुः परममाजग्मुः क्षयमेव च। जगत्प्रशमने जाते नष्टयज्ञोत्सवक्रिये
आजग्मुः परमोद्विग्नास्त्रिदशा मनुजेश्वर। समेत्य समहेंद्रास्तु भयान्मंत्रं प्रचक्रिरे
नारायणं पुरस्कृत्य वैकुंठमपराजितम्। ततो देवास्समेतास्ते तदोचुर्मधुसूदनम्
त्वं नः स्रष्टा च गोप्ता च भर्ता च जगतः प्रभो। त्वया सृष्टं जगत्सर्वं यच्चेंगं यच्च नेङ्गति
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण। वाराहं रूपमास्थाय जगदर्थे समुद्धृता
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा। नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम
अवध्यः सर्वभूतानां बलिश्चापि महासुरः। वामनं वपुरास्थाय त्रैलोक्याद्भ्रंशितस्त्वया
असुरः सुमहेष्वासो जंभ इत्यभिविश्रुतः। यज्ञक्षोभकरः क्रूरस्त्वमरैर्विनिपातितः
एवमादीनि कर्माणि येषां संख्या न विद्यते। अस्माकं भयभीतानां त्वं गतिर्मधुसूदन
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे। रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्
भवत्प्रसादाद्वर्तंते प्रजास्सर्वाश्चतुर्विधाः। स्वस्था भवंति मनुजा हव्यकव्यैर्दिवौकसः