तस्यास्थिभिर्महाघोरं वज्रं संक्रियतां दृढं। महच्छत्रुहनं दिव्यं तदस्त्रमशनिः स्मृतं
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः। एतद्वः सर्वमाख्यातं तस्मात्सर्वं विधीयतां
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहं। शतक्रतुं पुरस्कृत्य दधीचेराश्रमं ययुः
सरस्वत्याः परे पारे नानाद्रुमलतावृतं। षट्पदोद्गीतनिनदैरुद्घुष्टं सामगैरिव
पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्। महिषैश्च वराहैश्च सृमरैश्चमरैरपि
तत्रतत्रानुचरितैः शार्दूलभयवर्जितैः। करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः
स्वरोद्गारैश्च क्रीडद्भिः समंतादनुनादितं। सिंहव्याघ्रैर्महानादं नदद्भिरनुनादितं
मयूरैश्चापि संलीनैर्गुहाकंदरवासिभिः। तेषु तेषु च कुंजेषु नादितं सुमनोरमं
त्रिविष्टपसमप्रख्यं दधीच्याश्रममागमन्। तत्रापश्यन्दधीचिं तं दिवाकरसमप्रभम्
जाज्वल्यमानं वपुषा यथा लक्ष्म्या चतुर्भुजम्। तस्य पादौ सुरा राजन्नभिवंद्य प्रणम्य च। अयाचंत वरं सर्वे यथोक्तं परमेष्ठिना
ततो दधीचिः परमप्रतीतः सुरोत्तमांस्तानिदमित्युवाच। करोमि यद्वो हितमद्य देवाः स्वं वापि देहं त्वहमुत्सृजामि
तानेवमुक्त्वा द्विपदां वरिष्ठः प्राणांस्ततोऽसौ सहसोत्ससर्ज। सुरास्तदस्थीनि सवासवास्ते यथोपयोगं जगृहुः स्म तस्य
प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमासाद्य तमर्थमूचुः। त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्
चकार वज्रं भृशमुग्रवीर्यं कृत्वा च शस्त्रं तमुवाच हृष्टः। अनेन शस्त्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रं
ततो हतारिः सगणः सुखं त्वं प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः। त्वष्ट्रा तथोक्तस्तु पुरंदरश्च वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात्
ततः स वज्रेणयुतो दैवतैरभिपूजितः। आससाद ततो वृत्रं स्थितमावृत्य रोदसी
कालकेयैर्महाकायैस्समंतादभिरक्षितं। समुद्यत प्रहरणैः सशृंगैरिव पर्वतैः
ततो युद्धं समभवद्देवानां सह दानवैः। मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्
उद्यतैः प्रतिसृष्टानां खड्गानां वीरबाहुभिः। आसीत्सुतुमुलः शब्दः शरीरैरभिपाटितैः
शिरोभिः प्रपतद्भिश्चाप्यंतरिक्षान्महीतलं। तालैरिव महीपाल वृतं तैरेव दृश्यते
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः। त्रिदशानभ्यवर्तन्त दावदग्धा इव द्रुमाः
तेषां वेगवतां वेगं सहितानां प्रधावताम्। न शेकुः सहिताः सोढुं भग्नास्ते प्राद्रवन्भयात्
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरंदरः। वृत्रं च वर्द्धमानं तु कश्मलं महदाविशत्
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः। स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन्
विष्णुनाप्यायितं शक्रं दृष्ट्वादे वगणास्तदा। सर्वे तेजस्समादध्युस्तथा ब्रह्मर्षयोऽमलाः
स समाप्यायितः शक्रो विष्णुना दैवतैः सह। ऋषिभिश्च महाभागैर्बलवान्समपद्यत
ज्ञात्वा बलस्थं त्रिदशाधिपं तं ननाद वृत्रस्सुमहानि नादम्। तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चेति चचाल सर्वं
ततो महेंद्रः परमाभितप्तः श्रुत्वा रवं घोरतरं महांतम्। भयेन मग्नस्त्वरितं मुमोच वज्रं महान्तं खलु तस्य शीर्षे
स शक्रवज्राभिहतः पपात महास्वनः कांचनमाल्यधारी। यथा महाशैलवरः पुरस्तात्स मंदरो विष्णुकरात्प्रमुक्तः
तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुं। वज्रं च मेने स्वकरात्प्रमुक्तं वृत्रं भयाच्चैव हतं न पश्यति