आश्रमानपि ते वच्मि शृणुष्वैकमना नृप। अगस्त्येन कृतश्चात्र आश्रमो देवसंमितः
सप्तर्षीणां पुरा चात्र आश्रमो देवसम्मतः। ब्रह्मर्षीणां तथा चात्र मनूनां परमस्तथा
नागानां च पुरी रम्या यज्ञपर्वतरोधसि। अगस्त्यस्य महाराज प्रभावममितात्मनः
कथयामि समासेन शृणु त्वं सुसमाहितः। पूर्वं कृतयुगे भीष्म दानवा युद्धदुर्मदाः
कालेया इति विख्याता गणाः परमदारुणाः। ते तु वृत्रं समाश्रित्य देवान्हंतुं समुद्यताः
ततो देवाः समुद्विग्ना ब्रह्माणमुपतस्थिरे। कृतांजलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितं। तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ
दधीचिरिति विख्यातो महानृषिरुदारधीः। तं गत्वा सहितास्सर्वे वरं च प्रतियाचत
स वो दास्यति धर्मात्मा सुप्रीतेनांतरात्मना। स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकांक्षिभिः
स्वान्यस्थीनि प्रयच्छस्व त्रैलोक्यहितकांक्षया। स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति
तस्यास्थिभिर्महाघोरं वज्रं संक्रियतां दृढं। महच्छत्रुहनं दिव्यं तदस्त्रमशनिः स्मृतं
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः। एतद्वः सर्वमाख्यातं तस्मात्सर्वं विधीयतां
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहं। शतक्रतुं पुरस्कृत्य दधीचेराश्रमं ययुः
सरस्वत्याः परे पारे नानाद्रुमलतावृतं। षट्पदोद्गीतनिनदैरुद्घुष्टं सामगैरिव
पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्। महिषैश्च वराहैश्च सृमरैश्चमरैरपि
तत्रतत्रानुचरितैः शार्दूलभयवर्जितैः। करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः
स्वरोद्गारैश्च क्रीडद्भिः समंतादनुनादितं। सिंहव्याघ्रैर्महानादं नदद्भिरनुनादितं
मयूरैश्चापि संलीनैर्गुहाकंदरवासिभिः। तेषु तेषु च कुंजेषु नादितं सुमनोरमं
त्रिविष्टपसमप्रख्यं दधीच्याश्रममागमन्। तत्रापश्यन्दधीचिं तं दिवाकरसमप्रभम्
जाज्वल्यमानं वपुषा यथा लक्ष्म्या चतुर्भुजम्। तस्य पादौ सुरा राजन्नभिवंद्य प्रणम्य च। अयाचंत वरं सर्वे यथोक्तं परमेष्ठिना
ततो दधीचिः परमप्रतीतः सुरोत्तमांस्तानिदमित्युवाच। करोमि यद्वो हितमद्य देवाः स्वं वापि देहं त्वहमुत्सृजामि
तानेवमुक्त्वा द्विपदां वरिष्ठः प्राणांस्ततोऽसौ सहसोत्ससर्ज। सुरास्तदस्थीनि सवासवास्ते यथोपयोगं जगृहुः स्म तस्य
प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमासाद्य तमर्थमूचुः। त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्
चकार वज्रं भृशमुग्रवीर्यं कृत्वा च शस्त्रं तमुवाच हृष्टः। अनेन शस्त्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रं
ततो हतारिः सगणः सुखं त्वं प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः। त्वष्ट्रा तथोक्तस्तु पुरंदरश्च वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात्
ततः स वज्रेणयुतो दैवतैरभिपूजितः। आससाद ततो वृत्रं स्थितमावृत्य रोदसी
कालकेयैर्महाकायैस्समंतादभिरक्षितं। समुद्यत प्रहरणैः सशृंगैरिव पर्वतैः
ततो युद्धं समभवद्देवानां सह दानवैः। मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्
उद्यतैः प्रतिसृष्टानां खड्गानां वीरबाहुभिः। आसीत्सुतुमुलः शब्दः शरीरैरभिपाटितैः
शिरोभिः प्रपतद्भिश्चाप्यंतरिक्षान्महीतलं। तालैरिव महीपाल वृतं तैरेव दृश्यते