पैतामहं सरः पुण्यं पुष्करं नाम नामतः। वैखानसानां सिद्धानां मुनीनां पुण्यदं हि यत्
सरस्वती पुण्यतमा यस्माद्याता महार्णवम्। आदिदेवो महायोगी यत्रास्ते मधुसूदनः
ख्यात आदिवराहेति नाम्ना त्रिदशपूजितः। हीनवर्णाश्च ये वर्णास्तीर्थे पैतामहे गताः
न वियोनिं व्रजंत्येते स्नात्वा तीर्थे महात्मनः। कार्तिक्यां च विशेषेण योभिगच्छेत्तु पुष्करं
फलं तत्राक्षयं तस्य भवतीत्यनुशुश्रुम। सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि
उपस्पृष्टं भवेत्तेन सर्वतीर्थे तु कौरव। जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा
पुष्करे स्नानमात्रेण सर्वमेतत्प्रणश्यति। यथासुराणां प्रवरः सर्वेषां तु पितामहः
तथैव पुष्करं तीर्थं तीर्थानामादिरुच्यते। त द्दृष्ट्वा दशवर्षाणि पुष्करे नियतः शुचिः
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति। यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते
कार्तिकीं वा वसेदेकां पुष्करे सममेव तु। पुष्करे दुष्करो होमः पुष्करे दुष्करं तपः
पुष्करे दुष्करं दानं वासश्चैव सुदुष्करः। ब्राह्मणो वेदविद्वांस्तु गत्वा वै ज्येष्ठपुष्करं
स्नानाद्भवेन्मोक्षभागी श्राद्धेन पितृतारकः। नाममात्रोपि यो विप्रो गत्वा संध्यामुपासते
वर्षाणि द्वादशैवेह तेन संध्या ह्युपासिता। भवेत्तु नात्र संदेहः पुरा प्रोक्तं स्वयंभुवा
सावित्री कथितो दोषः कुले तस्य न जायते। या पत्नी ददते भर्तुः संध्योपास्तिं करिष्यतः
करकेण तु ताम्रेण तोयं मुक्ता दिवं व्रजेत्। ब्रह्मलोकमनुप्राप्य तिष्ठति ब्रह्मणो दिनं५० 1.19.
एकाकिना गतेनापि संध्या वंद्या यथाक्रमं। पौष्करेणाथ तोयेन भृंगारे निहितेन तु
दक्षिणां दिशमास्थाय गायत्र्या राजसत्तम। पितॄणां परमा तृप्तिः क्रियते द्वादशाब्दिकी
युगसहस्रं पिण्डेन श्राद्धेनानन्त्यमश्नुते। एतदर्थं हि विद्वांसः कुर्वंते दारसंग्रहं
तीर्थे गत्त्वा प्रदास्यामः पिंडान्वै श्राद्धपूर्वकं। तेषां पुत्रा धनं धान्यमविच्छिन्ना च संततिः
भवेद्वै नात्र संदेह एतदाह पितामहः। तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्
आश्रमानपि ते वच्मि शृणुष्वैकमना नृप। अगस्त्येन कृतश्चात्र आश्रमो देवसंमितः
सप्तर्षीणां पुरा चात्र आश्रमो देवसम्मतः। ब्रह्मर्षीणां तथा चात्र मनूनां परमस्तथा
नागानां च पुरी रम्या यज्ञपर्वतरोधसि। अगस्त्यस्य महाराज प्रभावममितात्मनः
कथयामि समासेन शृणु त्वं सुसमाहितः। पूर्वं कृतयुगे भीष्म दानवा युद्धदुर्मदाः
कालेया इति विख्याता गणाः परमदारुणाः। ते तु वृत्रं समाश्रित्य देवान्हंतुं समुद्यताः
ततो देवाः समुद्विग्ना ब्रह्माणमुपतस्थिरे। कृतांजलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितं। तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ
दधीचिरिति विख्यातो महानृषिरुदारधीः। तं गत्वा सहितास्सर्वे वरं च प्रतियाचत
स वो दास्यति धर्मात्मा सुप्रीतेनांतरात्मना। स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकांक्षिभिः
स्वान्यस्थीनि प्रयच्छस्व त्रैलोक्यहितकांक्षया। स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति