ब्राह्मणैर्वेदविद्वद्भिः कथं यात्रा त्रिपुष्करे। कर्तव्या यत्फलं तस्या जायते तद्वदस्व मे
पुलस्त्य उवाच। प्रश्नभारो महानेष भवता परिकल्पितः। तदेकाग्रमना भूत्वा शृणु तीर्थ महाफलं
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं। विद्यातपश्च कीर्तिश्च स तीर्थफलमश्नुते
प्रतिग्रहादुपावृत्तः संतुष्टो येनकेन चित्। अहंकारनिवृत्तश्च स तीर्थफलमश्नुते
अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः। आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
ऋषीणां परमं गुह्यमिदं भरतसत्तम। पूर्वं यत्र महाराज सत्रे पैतामहे तथा
यतीनामुग्रतपसां येषां कोटिः समागता। मुखदर्शनमाश्रित्य स्थितास्ते ज्येष्ठपुष्करे
सुरूपतां परां लब्ध्वा प्रीतास्ते मुनिसत्तमाः। हर्षेण महताविष्टा ब्रह्मदर्शनकांक्षिणः
यज्ञोपवीतैस्ते भूमिं माप्य सर्वे चतुर्द्दिशं। कृत्वा तीर्थं विभागं च स्थिता भक्तिपरायणाः
आसन्नश्च ततस्तेषां तदा तुष्टः पितामहः। कोटिं कृत्वा तदा तेषां मानं दृष्ट्वा मनीषिणां
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति। इहागत्य नरो यो वै यदंगं प्रथमं जले
प्लावविष्यति रूपार्थं रूपिता तीर्थकारिता। भविष्यति न संदेहो योजनायतमंडले
अर्धयोजनविस्तारं दीर्घं सार्धं हि योजनम्। एतत्प्रमाणं तीर्थस्य ऋषिकोटिप्रवर्त्तितम्
गमनादेव राजेंद्र पुष्करस्य त्वरिंदम। राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः
सरस्वती महापुण्या प्रविष्टा ज्येष्ठपुष्करे। तत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः
अभिगच्छंति राजेंद्र चैत्रशुक्ल चतुर्दशीं। तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गोमेधं च तदाप्नोति कुलं चैव समुद्धरेत्। एवं तीर्थविभागस्तु कृतस्तैस्तु महर्षिभिः
पितॄन्देवांश्च सन्तर्प्य विष्णुलोके महीयते। तत्र स्नात्वा भवेन्मर्त्यो विमलश्चन्द्रमा यथा
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्। नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्
पुष्करं नाम विख्यातं महापातकनाशनम्। दशकोटिसहस्राणि तीर्थानां वै महीपते
सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुलनन्दन। आदित्या वसवो रुद्रास्साध्याश्च स मरुद्गणाः
गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभोः। यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा
दिव्य योगा महाराज पुण्येन महतान्विताः। मनसाप्यभिकामस्य पुष्कराणि मनस्विनः
पूयन्ते सर्वपापानि नाकपृष्ठे स मोदते। तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः
उवास परमप्रीतो देवदानवसम्मतः। पुष्करेषु महाराज देवास्सर्षिपुरोगमाः
सिद्धिं च समनुप्राप्ताः पुण्येन महतान्विताः। तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः
अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः। अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः
अन्नेन तेन संप्रीता कोटिर्भवति पूजिता। तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते
शाकैर्मूलैः फलैर्वापि येन वा वर्त्तयेत्स्वयम्। तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः। ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम