बुभुक्षितेन चात्यंतं निषिद्धेन च सर्वतः । तत्साहसं तदा दृष्ट्वा भक्तिं कीर्त्तिमुखस्य च
तमुवाचेश्वरः प्रीतः प्रासादे तिष्ठ मे सदा । त्वच्चित्तरहितो यश्च भविष्यति ममालये
स पतिष्यति शीघ्रं हीत्युक्तः सोंऽतर्हितोऽभवत् । शंभोर्मूध्नि तदा देवा ववृषुः पुष्पवृष्टिभिः
एवमत्यद्भुतं दृष्ट्वा सभायां तु त्रिशूलिनः । स्वर्भानुरपि देवेशं पुनः प्रोवाच विस्मितः
स्पृशंति त्वां कथं भावं स्वाधीनं योगिनं बलात् । इंद्रियैः पूज्यसे त्वं हि प्राप्योऽयं विषयैः कथम्
ब्राह्मादिलोकपालानां पूजां गृह्णासि सर्वतः । न त्वं पश्यसि कं देवं त्वं पूजयसि कंचन
ईश्वरोऽसि कथं लोके भिक्षाभोजी प्रतिष्ठितः । संगोपयसि योगीन्द्र गौरीं रम्यां प्रयच्छ मे
स्कंदलंबोदराभ्यां त्वं पुत्राभ्यां सहितोऽधुना । भिक्षापात्रं गृहीत्वा तु भ्रम नित्यं गृहेगृहे
एवं बहुविधं तत्र राहुराहेश्वरं प्रति । भगवानपि तच्छ्रुत्वा नोत्तरं किंचिदब्रवीत्
अथेशं मौनिनं त्यक्त्वा राहुर्नंदिनमब्रवीत् । त्व मंत्री ह्यसि सेनानीर्विकटानन बिंबधृक् 6.10.
एवमाचरित भ्रष्टं त्वं शिक्षयितुमर्हसि । नोचेद्रोषेणेंद्र इव पतिष्यति रणे हतः
इत्याकर्ण्य वचस्तस्य नंदी विज्ञाप्य चेश्वरम् । भ्रूसंज्ञयैव स तदा मतमाज्ञाय शूलिनः
संपूज्य प्रेषयामास राहुं नंदी गणाग्रणीः । अथ जालंधरं गत्वा कथयामास विस्तरात् । स्वर्भानुस्तस्य वृत्तांतं गौरीरूपं मनोहरम्
नारदउवाच- नारायणस्तदा देवो जटावल्कलधार्यथ । द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान्
तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा । तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ
भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ । वने घोरे प्रविष्टासि कथं दुष्टनिषेविते
एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः । मुंचेमामधमाचार मृद्वंगीं चारुहासिनीम्
रेरे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः । सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः
भव पुण्यप्रभावेयं हंस्येतां मंडनं भुवः । अद्यलोकं निरालोकं कंदर्पं दर्पवर्जितम्
करिष्यस्यधुना त्वं च हत्वा वृंदारिकां वने । तस्मादिमां विमुंचाशु सुखप्रासाददेवताम्
इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत् । समर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात्
इत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः । पपात भस्मसाद्भूतस्त्यक्त्वा वृंदां सुदूरतः
अथोवाच प्रमुग्धा सा मायया जगदीशितुः । कस्त्वं कारुण्यजलधिर्येनाहमिह रक्षिता
शारीरं मानसं दुःखं सतापं तपसां निधे । त्वया मधुरया वाचा हृतं राक्षसनाशनात्
तवाश्रमे तपः सौम्य करिष्यामि तपोधन
तापस उवाच- भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः । विहाय भोगानखिलान्वनं घोरमुपागतः
अनेन बटुनासार्धं मम शिष्येण कामगाः । बहुशः संति चान्येऽपि मच्छिष्याः कामरूपिणः
त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपः शुभे । एहि राज्ञ्यपरं यामो वनं दूरस्थितं यतः
इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः । वनं प्रेतपिशाचाढ्यं मंदगत्या नराधिप
वृंदारिकाश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ । स्मरदूती च तत्पृष्ठे मां प्रतीक्षेति वादिनी