हाटकक्षितिगौरीणां नंदातीर्थे महोदयं। दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलं
धान्यप्रदानं प्रवदंति शस्तं वसुप्रदानं च तथा मुनींद्राः । यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतुः प्रवरं प्रदिष्टम्
प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तत्र कुर्यात्प्रमदा पुमान्वा। तीर्थेषु सायुज्यमवाप्य सोऽयं भुङ्क्ते फलं ब्रह्मगृहे यथेष्टं
तस्योपकंठे तु मृतास्तु ये वै कर्मक्षयात्स्थावरजंगमाश्च। तैश्चापि सर्वैः सहसा प्रसह्य लभ्येत यज्ञस्य फलं दुरापम्
ततस्तु सा धर्मफलप्रदा भवेज्जन्मादि दुःखार्दित चेतसां नृणाम्। सर्वात्मना पुण्यफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी
भीष्म उवाच। पुष्करस्य च नंदायाः श्रुतं माहात्म्यमुत्तमं। ऋषिकोटिर्यदायाता पुष्करे मुखदर्शनात्
सर्वैः सुरूपता लब्धा सर्वमेतन्मया श्रुतं। यज्ञोपवीतैर्भक्तानि यानि तानि वदस्व मे
कथं तीर्थविभागस्तु कृतस्तैस्सु महात्मभिः। आश्रमे यानि तीर्थानि कृतान्यपि महर्षिभिः
पदन्यासः कृतः पूर्वं विष्णुना यज्ञपर्वते। नागैस्तत्र पंचतीर्थं कृतं तैस्तु महाविषैः
पिंडप्रदानवापी च केन पूर्वं विनिर्मिता। उदङ्मुखी भूमिगता कथं गंगासरस्वती
ब्राह्मणैर्वेदविद्वद्भिः कथं यात्रा त्रिपुष्करे। कर्तव्या यत्फलं तस्या जायते तद्वदस्व मे
पुलस्त्य उवाच। प्रश्नभारो महानेष भवता परिकल्पितः। तदेकाग्रमना भूत्वा शृणु तीर्थ महाफलं
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं। विद्यातपश्च कीर्तिश्च स तीर्थफलमश्नुते
प्रतिग्रहादुपावृत्तः संतुष्टो येनकेन चित्। अहंकारनिवृत्तश्च स तीर्थफलमश्नुते
अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः। आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
ऋषीणां परमं गुह्यमिदं भरतसत्तम। पूर्वं यत्र महाराज सत्रे पैतामहे तथा
यतीनामुग्रतपसां येषां कोटिः समागता। मुखदर्शनमाश्रित्य स्थितास्ते ज्येष्ठपुष्करे
सुरूपतां परां लब्ध्वा प्रीतास्ते मुनिसत्तमाः। हर्षेण महताविष्टा ब्रह्मदर्शनकांक्षिणः
यज्ञोपवीतैस्ते भूमिं माप्य सर्वे चतुर्द्दिशं। कृत्वा तीर्थं विभागं च स्थिता भक्तिपरायणाः
आसन्नश्च ततस्तेषां तदा तुष्टः पितामहः। कोटिं कृत्वा तदा तेषां मानं दृष्ट्वा मनीषिणां
अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति। इहागत्य नरो यो वै यदंगं प्रथमं जले
प्लावविष्यति रूपार्थं रूपिता तीर्थकारिता। भविष्यति न संदेहो योजनायतमंडले
अर्धयोजनविस्तारं दीर्घं सार्धं हि योजनम्। एतत्प्रमाणं तीर्थस्य ऋषिकोटिप्रवर्त्तितम्
गमनादेव राजेंद्र पुष्करस्य त्वरिंदम। राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः
सरस्वती महापुण्या प्रविष्टा ज्येष्ठपुष्करे। तत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः
अभिगच्छंति राजेंद्र चैत्रशुक्ल चतुर्दशीं। तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
गोमेधं च तदाप्नोति कुलं चैव समुद्धरेत्। एवं तीर्थविभागस्तु कृतस्तैस्तु महर्षिभिः
पितॄन्देवांश्च सन्तर्प्य विष्णुलोके महीयते। तत्र स्नात्वा भवेन्मर्त्यो विमलश्चन्द्रमा यथा
ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्। नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्
पुष्करं नाम विख्यातं महापातकनाशनम्। दशकोटिसहस्राणि तीर्थानां वै महीपते