अभयं सर्वभूतानां नास्ति दानमतः परम्। चराचराणां भूतानामभयं यः प्रयच्छति
स च सर्वभयान्मुक्तः परं ब्रह्माधिगच्छति। नास्त्यहिंसा समं दानं नास्त्यहिंसा समं तपः
यथा हस्तिपदेष्वन्यत्पदं सर्वं प्रलीयते। सर्वे धर्मास्तथा व्याघ्र प्रलीयंते ह्यहिंसया
योगवृक्षस्य छाया या तापत्रयविनाशिनी। धर्मज्ञाने च पुष्पाणि स्वर्गमोक्षौ फलानि च
दुःखत्रयाभितप्तस्य छाया योगतरोः स्मृता। न बाध्यते पुनर्दुःखैः प्राप्य निर्वाणमुत्तमम्
इत्येतत्परमं श्रेयः कीर्तितं ते समासतः। ज्ञातं चैव त्वया सर्वं केवलं मां तु पृच्छसि
द्वीप्युवाच। अहं मृग्या पुरा शप्तो व्याघ्ररूपेण संस्थितः। ततः प्राणिवधात्सर्वमशेषं मम विस्मृतम्
त्वत्संपर्कोपदेशाभ्यां संजातं स्मरणं पुनः। त्वं चाप्यनेन सत्येन गमिष्यसि परां गतिं
तदहं त्वां पुनः पृच्छे प्रश्नमेकं हृदि स्थितम्। साग्रं वर्षशतं जातं चिंतयानस्य मे शुभे
भवत्या भाग्ययोगेन कदाचित्स्वर्गशोभने। कृतं धर्मस्य संस्थानं सतां मार्गे प्रतिष्ठितम्
किं तेऽभिधानं कल्याणि ब्रूहि मेऽज्ञस्य सुव्रते। नंदोवाच। मम नंदेति संज्ञा तु कृता नंदेन स्वामिना
सांप्रतं भक्षयामीति ह्यतिष्ठः केन हेतुना। नंदेति श्रुत्वा तन्नाम मुक्तशापः प्रभंजनः४५० 1.18.
पुनर्नृपत्वमापन्नो बलरूपसमन्वितः। एतस्मिन्नंतरे धर्मस्तां ज्ञात्वा सत्यवादिनीम्
द्रष्टुं समागतस्तत्र प्राब्रवीच्च पयस्विनीम्। तव सत्यव्रताद्धृष्टो धर्मोहमिह चागतः
नंदे वृणीष्व भद्रं ते वरं वरतमं हि यत्। एवमुक्ता हि सा देवी नंदा तं प्रार्थयद्वरम्
तवानुभावात्ससुता गच्छामि पदमुत्तमम्। भवेदिदं शुभं तीर्थं मुनीनां धर्मदायकम्
मन्नाम्ना च सरिदियं नंदा नाम सरस्वती। वरप्रदानाद्देवेश तदेतत्प्रार्थितं मया
पुलस्त्य उवाच। सा तत्क्षणाद्गता देवी स्थानं सत्यवतां शुभम्। प्रभंजनोपि तद्राज्यं संप्राप्तः प्रागुपार्जितम्
नंदा येन गता स्वर्गं नंदां प्राप्य सरस्वतीम्। तेनाख्यया बुधैस्तस्याः प्रोक्ता नंदा सरस्वती
सरस्वती पुनस्तस्माद्वनात्खर्जूरसंज्ञितात्। दक्षिणेन पुनर्याता प्लावयंती धरातलम्
आगच्छन्नपि यस्तस्या नाम गृह्णाति मानवः। जीवन्सुखं स आप्नोति मृतो भवति खेचरः
तत्र ये शुभकर्माणस्त्यजंति स्वां तनुं नराः। ते विद्याधरराजानो भवंति सुखिनो जनाः
नराणां स्वर्गनिःश्रेणी स्नानात्पानात्सरस्वती। तत्र स्नानं प्रकुर्वन्ति येष्टम्यां सुसमाहिताः
ते मृताः स्वर्गमासाद्य मोदंते सुमनोरमाः। सरस्वती सदा स्त्रीणां तत्र सौभाग्यदायिका
उपोषिता तृतीयायामपि सौभाग्यभाजना। तत्र तद्दर्शनेनापि मुच्यते पापसंचयात्
स्पृशंति ये नराः केचित्तेपि ज्ञेया मुनीश्वराः। रजतस्य प्रदानेन रूपवान्जायते नरः
पुण्या पुण्यजलोपेता नदीयं ब्रह्मणः सुता। नंदा नामेति विपुला प्रवृत्ता दक्षिणामुखी
गत्वा ततो नातिदूरं पुनर्याता पराङ्मुखी। ततः प्रभृति सा देवी प्रसभं प्रकटा स्थिता
तस्यास्तटेषु पुण्येषु तीर्थान्यायतनानि च। संसेवितानि मुनिभिः सिद्धैश्चापि समंततः
तेषु सर्वेषु भवति धर्महेतुस्सरस्वती। स्नानात्पानात्प्रदानाद्वा हिरण्यस्य महानदी