क्षितिं वरुणमग्निं च वायुं चापि निशाकरं। दशदिग्देवतावृक्षान्नक्षत्राणि ग्रहैः सह
सर्वान्विज्ञापयामास प्रणिपत्य मुहुर्मुहुः। ये संश्रिता वने सिद्धाः सर्वाश्च वनदेवताः
वने चरंतं च तृणं ते रक्षंतु सुतं मम। चंपकाशोक पुन्नागास्सरलार्जुनकिंशुकाः
शृण्वंतु पादपाः सर्वे संदेशं मम विक्लवं। वत्समेकाकिनं दीनं चरंतं विषमे वने
रक्षध्वं वत्सकं बालं स्नेहात्पुत्रमिवौरसं। मात्रापित्राविहीनं च अनाथं दीनमानसं
विचरंतमिमां भूमिं क्रंदमानं सुदुःखितं। तस्येह क्रंदमानस्य मत्पुत्रस्य महावने
महाशोकाभिभूतस्य क्षुत्पिपासातुरस्य च। शून्यस्यैकाकिनः सर्वं जगच्छून्यं प्रपश्यतः
चरमाणस्य कर्तव्यं सानुक्रोशैस्तु रक्षणं। संदिश्य नंदा प्रीत्यैवं पुत्रस्नेहवशं गता
शोकाग्निना च सन्दीप्ता विच्छिन्ना पुत्रदर्शने। वियुक्ता चक्रवाकीव लतेव पतिता तरोः
अंधेव दृष्टिरहिता प्रस्खलंती पदे पदे। अगच्छत्सा पुनस्तत्र यत्रासौ पिशिताशनः
आस्ते विस्फूर्जितमुखस्तीक्ष्णदंष्ट्रो भयावहः। तावत्तस्याः सुतो वत्स ऊर्द्ध्वपुच्छोतिवेगवान्
आगत्य मातुरग्रेसौ मृगेंद्रस्याग्रतोऽभवत्। आगतं तु सुतं दृष्ट्वा मृत्युं तमग्रतः स्थितं
व्याघ्रं दृष्ट्वा तु सा धेनुरिदं वचनमब्रवीत्। भोभो मृगेंद्रागताहं सत्यधर्मव्रते स्थिता
कुरु तृप्तिं यथाकाममस्मन्मांसेन सांप्रतम्। संतर्पय स्वभूतानि पिब त्वं शोणितं मम
मृतायां तु मयि त्वं भो भक्षयेमं तु बालकम्। द्वीप्युवाच। स्वागतं तव कल्याणि धेनुके सत्यवादिनी
न हि सत्यवतां किंचिदशुभं भवति क्वचित्। त्वयोक्तं धेनुके पूर्वं सत्यं प्रत्यागमे पुनः
तेन मे कौतुकं प्राप्तं प्राप्ता गच्छेत्कथं पुनः। तव सत्यपरीक्षार्थं प्रेषितासि मया पुनः
अन्यथा मां समासाद्य जीवंती यास्यसे कथम्। यच्च नः कौतुकं जातं सत्यमन्वेषणं मम
तस्मादनेन सत्येन मुक्तासि च मयाऽधुना। भगिनी भवती मह्यं भागिनेयः सुतस्तव
दत्तोपदेशस्य शुभे मम पापिष्ठकर्मणः। सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः
सत्येन गौः क्षीरधारां प्रमुंचति हविः प्रियाम्। स वै धन्यतमो गोपो यस्त्वत्क्षीरेण जीवति
भूमिप्रदेशा धन्यास्ते सतृणा वीरुधः शुभे। ते धन्याश्च कृतार्थाश्च तैरेव सुकृतं कृतम्
तैराप्तं जन्मनः सारं ये पिबंति पयस्तव। मृगेंद्रः प्रत्ययं गत्वा विस्मयं परमं गतः
प्रत्यादेशोऽयमस्माकं सत्यं देवैः प्रदर्शितः। सत्यमिष्टं गवां दृष्ट्वा न मे वाञ्छास्ति जीवितुम्
तत्करिष्याम्यहं कर्म येन मुच्येय किल्बिषात्। मया जीवसहस्राणि भक्षितानि शतानि च
गतिं कामिह गच्छामि दृष्ट्वा गोः सत्यमीदृशम्। अहं पापो दुराचारो नृशंसो जीवघातकः
कांस्तु लोकान्गमिष्यामि कृत्वा कर्म सुदारुणम्। गमिष्ये पुण्यतीर्थानि करिष्ये पापशोधनम्
पतिष्ये गिरिमारुह्य प्रवेक्ष्ये वा हुताशनम्। धेनोऽद्य यन्मया कार्यं तपः पापाद्विशुद्धये
तदादिशस्व संक्षेपान्न कालो विस्तरस्य तु। धेनुरुवाच। तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे। सर्वेषामेव दानानामिदमेवैकमुत्तमम्