सुतं च मातरं चैव सखीर्द्रष्टुं च गोकुलं। आगता सत्यवाक्येन पुनर्यास्यामि तत्र वै
मातः क्षमस्व तत्सर्वं दौःशील्यादि कृतं मम। बालस्तवायं दौहित्रः किमत्रान्यद्ब्रवीम्यहं
विपुले चंपके मातर्भद्रे सुरभि मानिनि। वसुधारे प्रियानंदे महानंदे घटस्रवे
अज्ञानाज्ज्ञानतो वापि यदुक्तं किंचिदप्रियं। तत्क्षमध्वं महाभागा यच्चान्यच्च कृतं मया
सर्वाः सर्वगुणोपेताः सर्वा लोकस्य मातरः। सर्वाः सर्वप्रदा नित्यं रक्षध्वं मम बालकं
अनाथं विकलं दीनं रक्षध्वं मम पुत्रकं। मातृशोकाभिसंतप्तं भगिन्यः पालयिष्यथ
यस्मादनाथमबलं पुत्रवत्पालयिष्यथ। क्षमध्वं च महाभागा यास्यामि सत्यसंश्रयात्
न चिंता महती कार्या सखीभिश्च कथंचन। प्रथमस्यास्य जातस्य स्थितं मरणमग्रतः
श्रुत्वा तु नंदावचनं माता सख्यश्च दुःखिताः। विषादं परमं जग्मुरिदमूचुश्च विस्मिताः
अहोऽत्र महदाश्चर्यं यद्व्याघ्रवचनं त्वया। प्रकर्तुमुद्यतं भीमं नंदा त्वं सत्यवादिनी
शपथैः सत्यवाक्येन वंचयित्वा महाभयं। नाशनीयं प्रयत्नेन न गंतव्यं कथंचन
नंदे न चैव गंतव्यमधर्मः क्रियते त्वया। यद्बालं स्वसुतं त्यक्त्वा सत्यलोभेन गम्यते
अत्र गाथा पुरा प्रोक्ता ऋषिभिर्ब्रह्मवादिभिः। प्राणत्यागे समुत्पन्ने शपथैर्नास्ति पातकं
उक्त्वानृतं भवेद्यत्र प्राणिनां प्राणरक्षणं। अनृतं तत्र सत्यं स्यात्सत्यमप्यनृतं भवेत्
कामिनीषु विवाहेषु गवां मुक्तौ तथैव च। ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकं
नंदोवाच। परेषां प्राणरक्षार्थं वदाम्येवानृतं वचः। नात्मार्थमुत्सहे वक्तुं जीवितार्थे कथंचन
एकः संश्लिष्यते गर्भे मरणे भरणे तथा। भुंक्ते चैकः सुखं दुःखमतः सत्यं वदाम्यहम्
सत्ये प्रतिष्ठिता लोका धर्मः सत्ये प्रतिष्ठितः। उदधिस्सत्यवाक्येन मर्यादां न विलंघते
विष्णवे पृथिवीं दत्वा बलि पातालमाश्रितः। छद्मनापि बलिर्बद्धः सत्यवाक्यं न चात्यजत्
प्रवर्धमानः शैलेंद्रः शतशृंगः समुत्थितः। सत्येन संस्थितो विंध्यः प्रबन्धं नातिवर्तते
स्वर्गापवर्गनरकाः सत्यवाचि प्रतिष्ठिताः। यस्तु लोपयते वाचमशेषं तेन लोपितं
योऽन्यथा संतमात्मानमन्यथा प्रतिपद्यते। किं तेन न कृतं पापं चोरेणात्मापहारिणा४०० 1.18.
यास्यामि नरकं घोरं विलोप्यात्मानमात्मना। तस्य वैवस्वतो राजा धर्मस्यार्धं निकृंतति
अगाधे सलिले शुद्धे सत्य तीर्थे क्षमा ह्रदे। स्नात्वा पापविनिर्मुक्तः प्रयाति परमां गतिं
अश्वमेधसहस्रं च सत्यं च तुलया धृतं। अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
सत्यं साधुफलं श्रुतं च परमं क्लेशादिभिर्वर्जितं। साधूनां निकटं सतां कुलधनं सर्वाश्रमाणां फलं। यस्मात्तं समवाप्य गच्छति दिवं संत्यज्यतेऽसौ कथं। लोकैरत्र समागमे प्रतिदिनं सत्यं वदध्वं ध्रुवं
सख्य ऊचुः। नंदे सा त्वं नमस्कार्या सर्वैरपि सुरासुरैः। या त्वं परमसत्वेन प्राणांस्त्यजसि दुस्त्यजान्
ब्रूमः किं तत्र कल्याणि या त्वं धर्मधुरंधरा। त्यागेनानेन नाऽप्राप्यं त्रैलोक्ये वस्तु किंचन
अवियोगं च पश्यामस्त्यागादस्मात्सुतेन हि। नार्याः कल्याणचित्तायानापदः संति कुत्रचित्
दृष्ट्वा गोपीजनं सर्वं परिक्रम्य च गोकुलं। नंदा संप्रस्थिता देवान्वृक्षांश्चापृच्छ्य सा पुनः