श्लाघ्यं ममापि मरणं त्वया सह न संशयः। एकाकिनापि मर्तव्यं मयार्तेन त्वया विना
यदि मां संहितं मातर्वने व्याघ्रो हनिष्यति। या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति३५० 1.18.
तस्मादवश्यं यास्यामि त्वया सह न संशयः। अथवा तिष्ठ मातस्त्वं शपथाः संतु ते मम
जनन्या च वियुक्तस्य जीविते किं प्रयोजनम्। अनाथस्य वने नित्यं को मे नाथो भविष्यति
नास्ति मातृसमो बंधुर्बालानां क्षीरजीविनाम्। नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः
नास्ति मातृसमः स्नेहो नास्ति मातृसमं मुखम्। नास्ति मातृसमो देव इहलोके परत्र च
एवं वै परमो धर्मः प्रजापतिविनिर्मितः। ये तिष्ठंति सदा पुत्रास्ते यांति परमां गतिम्
नंदोवाच। ममैव विहितो मृत्युर्न त्वं पुत्रागमिष्यसि। न चायमन्यजीवानां मृत्युः स्यादन्यमृत्युना
अपश्चिममिमं पुत्र मातृसंदेशमुत्तमम्। अत्रातिष्ठस्व मद्वाक्यात्ततः शुशूषणं पुनः
जलेस्थले च विचरन्प्रमादं तात मा कुरु। प्रमादात्सर्वभूतानि विनश्यंति न संशयः
न च लोभेन चर्तव्यं विषमस्थं तॄणं क्वचित्। लोभाद्विनाशः सर्वेषामिहलोके परत्र च
समुद्रमटवीं पुत्र विशंति लोभमोहिताः। लोभादकार्यमत्युग्रं विद्वानपि समाचरेत्
लोभात्प्रमादाद्विस्रंभात्त्रिभिर्नाशो भवेन्नॄणाम्। तस्माल्लोभं न कुर्वीत न प्रमादं न विश्वसेत्
आत्मा हि सततं पुत्र रक्षितव्यः प्रयत्नः। सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छचोरादिसंकटात्
तिरश्चां पापयोनीनामेकत्र वसतामपि। विपरीतानि चित्तानि विज्ञायंते न पुत्रक
नखिनां च नदीनां च शृंगिणां शस्त्रधारिणाम्। न विश्वासस्त्वया कार्यः स्त्रीणां प्रेष्यजनस्य च
न विश्वसेदविश्वस्ते विश्वस्तेनाति विश्वसेत्। विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृंतति
न विश्वसेत्स्वदेहेपि बलिष्ठे भीतचेतसि। वक्ष्यंति गूढमत्यर्थं सुप्तं मत्तं प्रमादतः
गंधः सर्वत्र सततमाघ्रातव्यः प्रयत्नतः। गावः पश्यंति गंधेन राजानश्चारचक्षुषा
नैकस्तिष्ठेद्वनेघोरे धर्ममेकं च चिंतयेत्। नचोद्वेगस्त्वयाकार्यः सर्वस्य मरणं ध्रुवं
यथा हि पथिकः कश्चिच्छायामाश्रित्य तिष्ठति। विश्रम्य च पुनर्याति तद्वद्भूतसमागमः
पुत्र नित्यं जगत्सर्वं तत्रैकः शोचसे कथं। तावत्त्वं शोकमुत्सृज्य मद्वाक्यमनुपालय
शिरस्याघ्राय तं पुत्रमवलिह्य च मूर्द्धनि। शोकेन महताविष्टा बाष्पव्याकुललोचना
विनिःश्वसंती नागीव दीर्घमुष्णं मुहुर्मुहुः। पुत्रहीनं जगच्छून्यं प्रपश्यंतीव साऽभवत्
महापंकनिमग्नेव तिष्ठंती चावसीदती। विलप्य नंदिनी पुत्रमुवाचेदं पुनर्वचः
नास्ति पुत्रसमः स्नेहो नास्तिपुत्रसमं सुखं। नास्ति पुत्रसमा प्रीतिर्नास्ति पुत्रसमा गतिः
अपुत्रस्य जगच्छून्यमपुत्रस्य गृहेऽसुखम्। पुत्रेण लभते लोकमपुत्रो नरकं व्रजेत्
लोको वदति वाक्यानि चंदनं किल शीतलं। पुत्रगात्रपरिष्वंगश्चंदनादतिशीतलः
इति पुत्रगुणानुक्त्वा निरीक्ष्य च पुनःपुनः। स्वमातरं सखीर्गोपीस्त्वरमाणा च पृच्छति
यूथस्याग्रे चरंतीं मामाससाद मृगाधिपः। मुक्ताहं तेन शपथैः पुनर्यास्यामि तत्र वै