कुतर्कहेतुवृत्तांतैरज्ञानावृतचेतसः। मोहयंति नराः क्षुद्रा आगमानविशारदाः
अतथ्यान्यपि तथ्यानि दर्शयंत्यतिपेशलाः। समे निम्नोन्नतानीव चित्रकर्मविदो जनाः
प्रायः कृतार्थो लोकोयं मन्यते नोपकारिणम्। वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्
न तं पश्यामि लोकेस्मिन्कृते प्रतिकरोति यः। सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते
ऋषिदेवासुरनरैः शपथाः कार्यसिद्धये। कृताः परस्परं पूर्वं तान्न मन्यामहे वयम्
सत्येनापि शपेद्यस्तु देवाग्निगुरुसन्निधौ। तस्य वैवस्वतो राजा धर्मस्यार्द्धं निकृंतति
मा ते बुद्धिर्भवेदेवं शपथैरेष वंचितः। त्वयैव दर्शितं सर्वं यथेष्टं कुरु सांप्रतं
नंदोवाच। एवमेव महासाधो कस्त्वां वंचयितुं क्षमः। आत्मैव वंचितस्तेन यः परं वंचयिष्यति
द्वीप्युवाच। धेनुके पश्य गच्छ त्वं पुत्रकं पुत्रवत्सले। पाययित्वा स्तनं वत्समवलिह्य च मूर्द्धनि
मातरं भ्रातरं दृष्ट्वा सखीस्वजनबांधवान्। सत्यमेवाग्रतः कृत्वा शीघ्रमागमनं कुरु
एवं सा शपथं कृत्वा धेनुर्वै सत्यवादिनी। अनुज्ञाता मृगेंद्रेण प्रयाता पुत्रवत्सला
अश्रुपूर्णमुखीदीना वेपमाना सुदुःखिता। हंभारवं प्रमुंचंती पतिता शोकसागरे
करीव चरणग्राहं गृहीतः सलिलाशये। अशक्ता स्वपरित्राणे विलपंती मुहुर्मुहुः
सा तत्र गोकुलं प्राप्ता हरिन्नद्यास्तटे स्थितम्। श्रुत्वा वत्सं तु क्रोशंतं पर्यधावत संमुखी
उपसृप्य च तं बालं बाष्पपर्याकुलेक्षणम्। संप्राप्य मातरं वत्सः शंकितः परिपृच्छति
न ते पश्याम्यहं स्वास्थ्यं धैर्यं नैवाद्य लक्षये। उद्विग्ना चापि ते दृष्टिर्भीता चातीव लक्ष्यसे
नन्दोवाच। पिब पुत्र स्तनं मेद्य कारणं यदि पृच्छसि। अशक्ताहं तवाख्यातुं कुरु तृप्तिं यथेप्सिताम्
अपश्चिमं तु ते पुत्र दुर्लभं मातृदर्शनम्। एकाहमद्य मे पीत्वा प्रभाते कस्य पास्यसि
त्वां त्यक्त्वा पुत्र गंतव्यं शपथैरागता ह्यहम्। क्षुत्क्षामस्य च व्याघ्रस्य दातव्यमात्मजीवितम्
नंदायाश्च वचः श्रुत्वा वत्सो वचनमब्रवीत्। वत्स उवाच। अहं तत्र गमिष्यामि यत्र त्वं गंतुमिच्छसि
श्लाघ्यं ममापि मरणं त्वया सह न संशयः। एकाकिनापि मर्तव्यं मयार्तेन त्वया विना
यदि मां संहितं मातर्वने व्याघ्रो हनिष्यति। या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति३५० 1.18.
तस्मादवश्यं यास्यामि त्वया सह न संशयः। अथवा तिष्ठ मातस्त्वं शपथाः संतु ते मम
जनन्या च वियुक्तस्य जीविते किं प्रयोजनम्। अनाथस्य वने नित्यं को मे नाथो भविष्यति
नास्ति मातृसमो बंधुर्बालानां क्षीरजीविनाम्। नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः
नास्ति मातृसमः स्नेहो नास्ति मातृसमं मुखम्। नास्ति मातृसमो देव इहलोके परत्र च
एवं वै परमो धर्मः प्रजापतिविनिर्मितः। ये तिष्ठंति सदा पुत्रास्ते यांति परमां गतिम्
नंदोवाच। ममैव विहितो मृत्युर्न त्वं पुत्रागमिष्यसि। न चायमन्यजीवानां मृत्युः स्यादन्यमृत्युना
अपश्चिममिमं पुत्र मातृसंदेशमुत्तमम्। अत्रातिष्ठस्व मद्वाक्यात्ततः शुशूषणं पुनः
जलेस्थले च विचरन्प्रमादं तात मा कुरु। प्रमादात्सर्वभूतानि विनश्यंति न संशयः