यत्तीर्थं सर्वतीर्थानां धन्यानां धन्यमुत्तमम्। समस्तगुणसंपन्नमीश्वरायतनं महत्
यत्ख्यातं सर्वतीर्थानां भूमिस्वर्गमनुत्तमम्। गोपीमंथनशब्देन बालवत्सरवेण च
गवां हुंकारशब्देन अलक्ष्मीः प्रतिहन्यते। यत्र वत्साश्च हुंकारं करुणं मातृकांक्षया
यद्गोपैः पालितं शूरैर्बाहुयुद्धकृतश्रमैः। प्रगीतनृत्यसंलापं नंदितास्फोटनादितम्
इतस्ततः स्थितैर्वत्सैर्नर्द्यमानं समंततः। सरोवद्राजते गोष्टं चलद्भिरिव पंकजैः
तं श्रीनिकेतनं सौम्यं हृष्टपुष्टजनाकुलम्। गोलोकप्रतिमं दृष्ट्वा कथं प्रत्यागमिष्यसि
पंचभूतानि मे भद्रे पिबंतु रुधिरं तव। न निर्विण्णानि भूतानि वाङ्मात्रेण करोम्यहम्
नंदोवाच। एवं प्रथमवत्साया मृगेंद्र शृणु मे वचः। दृष्ट्वा सखीः सुतं बालं गोपांश्च प्रतिपालकान्
गोपीजनमुपामंत्र्य जननीं च विशेषतः। शपथैरागमिष्यामि मन्यसे यदि मुंच मां
यत्पापं ब्रह्मवध्यायां मातृपितृवधेषु च। तेन पापेन लिप्येहं यद्यहं नागमे पुनः
यत्पापं लुब्धकानां तु म्लेच्छानां गरदायिनाम्। तेन पापेन लिप्येहं यद्यहं नागमे पुनः
गोषु विघ्नांश्च ये कुर्युः स्वपंतीं ताडयंति च। तेन पापे नलिप्येहं यद्यहं नागमे पुनः
सकृद्दत्वा तु यः कन्यां द्वितीये दातुमिच्छति। तस्य पापेन लिप्येहं यद्यहं नागमे पुनः
यस्त्वनर्हान्बलीवर्दान्विषमे वाहयेत्पुमान्। कथायां कथ्यमानायां विघ्नं कारयते तु यः
तेन पापेन लिप्येहं यद्यहं नागमे पुनः। गृहे यस्यागतं मित्रं निराशं प्रतिगच्छति
तस्य पापेन लिप्येहं यद्यहं नागमे पुनः। इत्येतैः पातकैर्घोरैरागमिष्याम्यहं पुनः
बुध्वा संप्रत्ययं द्वीपी पुनर्वचनमब्रवीत्। व्याघ्र उवाच। संजातः प्रत्ययोस्माकं शपथैर्धेनुके तव
कदाचिन्मन्यसे गत्वा मूर्खोयं वंचितो मया। अत्रापि केचिद्वक्ष्यंति शपथे नास्ति पातकम्
कामिनीषु विवाहेषु गवां मुक्तौ तथैव च। प्राणत्यागे समुत्पन्ने श्रद्धातव्यं न च त्वया
लोकेस्मिन्नास्तिकाः केचिन्मूर्खाः पंडितमानिनः। भ्रामयिष्यंति ते चित्तं चक्रारूढमिव क्षणात्
कुतर्कहेतुवृत्तांतैरज्ञानावृतचेतसः। मोहयंति नराः क्षुद्रा आगमानविशारदाः
अतथ्यान्यपि तथ्यानि दर्शयंत्यतिपेशलाः। समे निम्नोन्नतानीव चित्रकर्मविदो जनाः
प्रायः कृतार्थो लोकोयं मन्यते नोपकारिणम्। वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम्
न तं पश्यामि लोकेस्मिन्कृते प्रतिकरोति यः। सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते
ऋषिदेवासुरनरैः शपथाः कार्यसिद्धये। कृताः परस्परं पूर्वं तान्न मन्यामहे वयम्
सत्येनापि शपेद्यस्तु देवाग्निगुरुसन्निधौ। तस्य वैवस्वतो राजा धर्मस्यार्द्धं निकृंतति
मा ते बुद्धिर्भवेदेवं शपथैरेष वंचितः। त्वयैव दर्शितं सर्वं यथेष्टं कुरु सांप्रतं
नंदोवाच। एवमेव महासाधो कस्त्वां वंचयितुं क्षमः। आत्मैव वंचितस्तेन यः परं वंचयिष्यति
द्वीप्युवाच। धेनुके पश्य गच्छ त्वं पुत्रकं पुत्रवत्सले। पाययित्वा स्तनं वत्समवलिह्य च मूर्द्धनि
मातरं भ्रातरं दृष्ट्वा सखीस्वजनबांधवान्। सत्यमेवाग्रतः कृत्वा शीघ्रमागमनं कुरु