दह्यंती पुत्रशोकेन नंदा सा पुत्रवत्सला। रुदंती करुणं चैव निराशा पुत्रदर्शने
द्वीपी दृष्ट्वा तु तां धेनुं क्रंदमानां सुदुःखिताम्। उवाच वचनं घोरं धेनुके किं प्ररुद्यते
दैवात्सुखोपपन्नासि भक्षस्त्वं मे यदृच्छया। रुदंत्या वा हसंत्या वा तवात्तं जीवितं भवेत्
विहितं भुज्यते लोके स्वयंप्राप्तासि धेनुके। मृत्युस्ते विहितोद्यैव वृथा किमनुशोचसि
पप्रच्छ तां पुनर्द्वीपी किमर्थं रुदितं त्वया। कौतुकं चात्र मे जातं महन्मे कथयस्व वै
व्याघ्रस्य वचनं श्रुत्वा नंदा वाक्यमथाब्रवीत्। क्षंतुमर्हसि मे नाथ कामरूपिन्नमोस्तु ते
त्वां समासाद्य लोकस्य परित्राणं न विद्यते। जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येर्थे न शोचामि मृगाधिप
देवैरपि यथा सर्वैर्मर्त्तव्यमवशैर्ध्रुवम्। तस्मात्तु नाहमेवैका व्याघ्र शोचामि जीवितम्
किंतु स्नेहेन वै साधो दुःखेन रुदितं मया। अस्ति मे हृदि संतापस्तं च त्वं श्रोतुमर्हसि
प्रथमे वयसि प्राप्ते प्रसूताहं मृगाधिप। इष्टः प्रथमजातश्च सुतस्तु मम बालकः
क्षीरपायी च मे वत्सस्तृणं नाद्यापि जिघ्रति। स च गोपकुले बद्धः क्षुधार्तो मामवेक्षते३०० 1.18.
तमहं चानुशोचामि कथं जीविष्यते सुतः। तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशं गता
पाययित्वा स्तनं वत्समवलिह्य च मूर्द्धनि। सखीनामर्पयित्वा तु संदिश्य च हिताहितम्
पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि। स नंदाया वचः श्रुत्वा मृगेंद्रः पुनरब्रवीत्
किं ते पुत्रेण कर्त्तव्यं मरणं किं न बुध्यसे। त्रस्यंति सर्वभूतानि म्रियंते मां निरीक्ष्य च
त्वं पुनः कृपयाविष्टा पुत्रपुत्रेति भाषसे। न पुत्रा न तपो दानं न माता न पिता गुरुः
शक्नुवंति परित्रातुं नरं कालप्रपीडितम्। कथं त्वं गोकुलं गत्वा गोपीजनसमाकुलम्
वृषभैर्नादितं दिव्यं बालवत्सविभूषितम्। भूषणं देवलोकस्य स्वर्गतुल्यं न संशयः
नित्यं प्रमुदितं दिव्यं सर्वदेवप्रपूजितम्। यत्पवित्रं पवित्राणां मंगलानां च मंगलम्
यत्तीर्थं सर्वतीर्थानां धन्यानां धन्यमुत्तमम्। समस्तगुणसंपन्नमीश्वरायतनं महत्
यत्ख्यातं सर्वतीर्थानां भूमिस्वर्गमनुत्तमम्। गोपीमंथनशब्देन बालवत्सरवेण च
गवां हुंकारशब्देन अलक्ष्मीः प्रतिहन्यते। यत्र वत्साश्च हुंकारं करुणं मातृकांक्षया
यद्गोपैः पालितं शूरैर्बाहुयुद्धकृतश्रमैः। प्रगीतनृत्यसंलापं नंदितास्फोटनादितम्
इतस्ततः स्थितैर्वत्सैर्नर्द्यमानं समंततः। सरोवद्राजते गोष्टं चलद्भिरिव पंकजैः
तं श्रीनिकेतनं सौम्यं हृष्टपुष्टजनाकुलम्। गोलोकप्रतिमं दृष्ट्वा कथं प्रत्यागमिष्यसि
पंचभूतानि मे भद्रे पिबंतु रुधिरं तव। न निर्विण्णानि भूतानि वाङ्मात्रेण करोम्यहम्
नंदोवाच। एवं प्रथमवत्साया मृगेंद्र शृणु मे वचः। दृष्ट्वा सखीः सुतं बालं गोपांश्च प्रतिपालकान्
गोपीजनमुपामंत्र्य जननीं च विशेषतः। शपथैरागमिष्यामि मन्यसे यदि मुंच मां
यत्पापं ब्रह्मवध्यायां मातृपितृवधेषु च। तेन पापेन लिप्येहं यद्यहं नागमे पुनः