स्तनं तु तनयस्यास्य प्रयच्छंती त्वया हता। बाणेनाशनिकल्पेन निर्दोषा वनमागता
तस्मात्त्वमपि दुर्बुद्धे क्रव्यादत्वमवाप्स्यसि। वनेस्मिन्कंटकाकीर्णे व्याघ्ररूपं त्वमाप्नुहि
शापप्रदानं श्रुत्वैवं स राजापुरतः स्थितः। प्रोवाच प्रांजलिर्भूत्वा तां मृगीं व्यथितेन्द्रियः
स्तनं तु तनयस्येह प्रयच्छंती न मे मता। अज्ञानेन हता भद्रे प्रसीद सुसमाधिना
व्याघ्ररूपमहं त्यक्त्वा प्राप्स्यामि मानुषं कदा। एवंविधस्य शापस्य विमोक्षं शंस मे मृगि
एवमुक्ते मृगी तस्य प्रोवाच वचनं शुभम्। राजन्नब्दशतांते तु शापस्यागतया गवा
नंदया सह संवादमासाद्यांतो भविष्यति। मृग्योक्ते वचने राजा व्याघ्र एवाभवत्तदा
नखदंष्ट्रायुधोपेतो व्याघ्ररूपोति भीषणः। तत्रासौ भक्षयन्नास्ते मृगान्हत्वा चतुष्पदः
द्विपदानपि तत्रस्थान्कालेन क्रमयोजितान्। एवं तत्र वने तस्य संवत्सरशतं गतम्
आत्मानं निंदमानस्य मृगमांसानि खादतः। कदाहं मानुषं भावं गमिष्यामीदृशं पुनः
कुत्सितं न करिष्यामि वियोनिकरणं महत्। कुर्वता मांसलोभेन मृगयां परिधावता
आपदासहितं प्राप्तं मानुषाणां भयावहम्। दर्शनं दुःखदं मह्यं मृगाणां मानुषैः सह
पापेन पापतां नीतो ह्यपापेऽपि सतां कुले। उत्पन्नो विकृतिं नीतः पश्य कालस्य पर्ययम्
तस्मान्मे सुकृतं नास्ति हिंसाप्येका विगर्हिता। तया तु प्राप्यते दुःखं न च मोक्षो भविष्यति
कथं मे भविता मोक्षः कथं सत्या मृगी भवेत्। गते वर्षशते तस्य वसतस्तद्वने तदा
आयातं गोकुलं काले यवसोदककारणात्। गोवाटवाटीसंस्थानं तत्तत्र समवस्थितम्
वनोपकण्ठे मंथानरवेणापूरितं च यत्। क्षीबैर्गोपैः समाकीर्णं पादपैरपितद्वनम्
निशिवंशरवोपेतं गोपीनां च शुभप्रदम्। एवं तु वसतस्तस्य खर्जूरवनसंसदि
हृष्टा तुष्टा च पुष्टा च नंदा वै नाम नामतः। गोमंडलस्य सामुख्या हंसवर्णा घटस्रवा
दीर्घघोणा विभक्तांगी बंधुरांगी तनुत्वचा। नीलकंठा शुभग्रीवा घंटाली मधुरस्वना
सा च यूथस्य सर्वस्य पुरश्चरति निर्भया। घासस्थानं चरेच्छन्नं गत्वैका च यथासुखम्
यथेष्टकामा सुरभी छन्नं चरति वै तृणम्। रोहितो नाम तत्रान्यः पर्वतः सरितस्तटे
अनेककंदरदरी गुहासत्व निषेवितः। तस्य पूर्वोत्तरेभागे घोरे तृणसमाकुले
संकटे विषमे दुर्गे भैरवे लोमहर्षणे। मृगसिंहसमाकीर्णे बहु श्वापद सेविते
वल्लीवृक्षादिगहने शिवाशत निनादिते। दुर्गेस्मिन्वसते रौद्रः कामरूपी भयंकरः
द्वीपी शोणित दिग्धांसो घोरदंष्ट्रानखायुधः। नंदो नाम स धर्मात्मा स च गोपीहिते रतः
अच्छिन्नाग्रैस्तृणैर्दीर्घैर्गोधनं परिरक्षति। तस्य यूथपरिभ्रष्टा सानंदा तृणलिप्सया
चरंती व्याघ्रपुरतः सा धेनुः प्रत्युपस्थिता। अभ्यद्रवच्च तां द्वीपी तिष्ठतिष्ठेति चाब्रवीत्
त्वमद्य विहितो भक्षः स्वयं प्राप्तासि धेनुके। द्वीपिनश्च वचः श्रुत्वा निष्ठुरं रोमहर्षणं
शुक्लरूपान्वितं बालं भद्रमिंदुसमप्रभम्। वत्सं स्मरति सा धेनुः स्नेहाक्ता गद्गदाक्षरम्