खर्जूरवनमासाद्य फलपुष्पोपशोभितं। तत्रोषित्वा पुनर्देवी वने मुनिमनोरमे
सर्वर्तुकुसुमाकीर्णे सिद्धचारणसेविते। नंदा नाम सरिच्छ्रेष्ठा त्रिषुलोकेषु विश्रुता२५० 1.18.
मीननक्रझषोपेता विमलोदकपूरिता। सूत उवाच। अथ देवव्रतःप्राह किमन्या सा सरिद्वरा
एतन्मे कौतुकं ब्रह्मन्नंदा शब्दा सरस्वती। यथाभूता येन कृता कारणेन सरिद्वरा
एवमुक्ते पुलस्त्यः स भीष्मायैतत्पुरातनं। आख्यातुमुपचक्राम नंदा नाम यतस्स्मृतं
क्षत्रव्रतधरो नित्यमासीद्राजा प्रभंजनः। प्रवृत्तोसौ मृगान्हंतुं वने तस्मिन्महाबलः
स ददर्श ततस्तस्मिन्मृगीं गुल्मांतरे स्थितां। मार्गणेन सुतीक्ष्णेन तां विव्याध पुरोगतां
सा विलोक्य दिशः सर्वास्तं दृष्ट्वा शरपाणिनं। आह किं ते कृतं मूढ त्वयैतत्कर्मदुष्करं
स्तनं तावत्प्रयच्छामि सुतस्याधोमुखी स्थिता। मांसलोभेन विद्धाहं तरसा ह्यकुतोभया
पिबंतं गुप्तवत्सं च गूढमैथुनमागतं। एवंविधं मृगं राजन्न हन्यात्प्राङ्मया श्रुतं
स्तनं तु तनयस्यास्य प्रयच्छंती त्वया हता। बाणेनाशनिकल्पेन निर्दोषा वनमागता
तस्मात्त्वमपि दुर्बुद्धे क्रव्यादत्वमवाप्स्यसि। वनेस्मिन्कंटकाकीर्णे व्याघ्ररूपं त्वमाप्नुहि
शापप्रदानं श्रुत्वैवं स राजापुरतः स्थितः। प्रोवाच प्रांजलिर्भूत्वा तां मृगीं व्यथितेन्द्रियः
स्तनं तु तनयस्येह प्रयच्छंती न मे मता। अज्ञानेन हता भद्रे प्रसीद सुसमाधिना
व्याघ्ररूपमहं त्यक्त्वा प्राप्स्यामि मानुषं कदा। एवंविधस्य शापस्य विमोक्षं शंस मे मृगि
एवमुक्ते मृगी तस्य प्रोवाच वचनं शुभम्। राजन्नब्दशतांते तु शापस्यागतया गवा
नंदया सह संवादमासाद्यांतो भविष्यति। मृग्योक्ते वचने राजा व्याघ्र एवाभवत्तदा
नखदंष्ट्रायुधोपेतो व्याघ्ररूपोति भीषणः। तत्रासौ भक्षयन्नास्ते मृगान्हत्वा चतुष्पदः
द्विपदानपि तत्रस्थान्कालेन क्रमयोजितान्। एवं तत्र वने तस्य संवत्सरशतं गतम्
आत्मानं निंदमानस्य मृगमांसानि खादतः। कदाहं मानुषं भावं गमिष्यामीदृशं पुनः
कुत्सितं न करिष्यामि वियोनिकरणं महत्। कुर्वता मांसलोभेन मृगयां परिधावता
आपदासहितं प्राप्तं मानुषाणां भयावहम्। दर्शनं दुःखदं मह्यं मृगाणां मानुषैः सह
पापेन पापतां नीतो ह्यपापेऽपि सतां कुले। उत्पन्नो विकृतिं नीतः पश्य कालस्य पर्ययम्
तस्मान्मे सुकृतं नास्ति हिंसाप्येका विगर्हिता। तया तु प्राप्यते दुःखं न च मोक्षो भविष्यति
कथं मे भविता मोक्षः कथं सत्या मृगी भवेत्। गते वर्षशते तस्य वसतस्तद्वने तदा
आयातं गोकुलं काले यवसोदककारणात्। गोवाटवाटीसंस्थानं तत्तत्र समवस्थितम्
वनोपकण्ठे मंथानरवेणापूरितं च यत्। क्षीबैर्गोपैः समाकीर्णं पादपैरपितद्वनम्
निशिवंशरवोपेतं गोपीनां च शुभप्रदम्। एवं तु वसतस्तस्य खर्जूरवनसंसदि
हृष्टा तुष्टा च पुष्टा च नंदा वै नाम नामतः। गोमंडलस्य सामुख्या हंसवर्णा घटस्रवा
दीर्घघोणा विभक्तांगी बंधुरांगी तनुत्वचा। नीलकंठा शुभग्रीवा घंटाली मधुरस्वना