सरस्वत्यास्तु पर्यायाष्षडेते संप्रकीर्तिताः। ततः प्रभृति यत्रासौ प्राचीभूता सरस्वती
तत्रस्थं तज्जलं येपि पश्यंति तटसंस्थिताः। तेप्यश्वमेधस्यफलं लभंते नात्र संशयः
योवतीर्य पुनस्तत्र कश्चित्स्नानं समाचरेत्। नरः समाधियुक्तो वै ब्रह्मणोनुचरो भवेत्
शाकादिनापि हि पितॄन्यस्तत्रार्चयते नरः। सोप्येति विपुलान्भोगांस्तेषामेवानुभावतः
ये पुनर्विधिना तत्र श्राद्धं कुर्वंति मानवाः। ते नयंति पितॄन्स्वर्गं नरकादपि दुःखदात्
तृप्यंति पितरस्तस्य यस्तत्र कुशमिश्रितम्। स्नात्वा प्रयच्छते तोयं पूतं तेषां तिलान्वितम्
सर्वेषामेव तीर्थानामिदमेवाधिकं स्मृतम्। आदितीर्थमिदं तस्मात्तीर्थानां भुवि विश्रुतम्
धर्मापवर्गयोःनक्रीडाननिधिभूतमवस्थितम्। सरस्वत्यानपुनश्चैवनसमेतंनगुणवत्तरम्
धर्मार्थकाममोक्षाणां चतुर्णामपि दायकम्। येप्यत्र मलनाशाय पुमांसो विविशुर्जलम्
गोप्रदानसमं तेषां सुखेनैव फलं भवेत्। सुवर्णदानेन सममेवमाहुर्मनीषिणः
तर्पणात्पिण्डदानाच्च नरकेष्वपि संस्थिताः। स्वर्गं प्रयान्ति पितरस्तत्र पुत्रेण तारिताः
पुष्करेपि सरस्वत्यां ये पिबन्ति जलं जनाः। ते लभन्तेऽक्षयान्लोकान्ब्रह्मविश्वेशवंदितान्
स्वर्गनिश्रेणिकाभूता पुष्करे च सरस्वती। सा पुण्यवद्भिस्संप्राप्तुं पुंभिश्शक्या महानदी
मुनिभर्धर्मतत्त्वज्ञैस्तत्र तत्र निषेविता। तस्मात्सर्वत्र सा देवी पवित्रा सर्वतस्स्थिता
पुष्करे तु विशेषेण पूतात्पूततमा हि सा। नदी सरस्वती पुण्या सुलभा जगति स्थिता
दुर्लभा सा कुरुक्षेत्रे प्रभासे पुष्करे तथा। तत्तीर्थं सर्वतीर्थानां प्रवरं विहितं भुवि
धर्मार्थकाममोक्षाणां चतुर्णामपि साधकम्। प्राचीं सरस्वतीं प्राप्य योन्यत्तीर्थं हि मार्गते
स करस्थं समुत्सृज्य ह्यमृतं विषमिच्छति। ज्येष्ठे ज्येष्ठा प्रयागस्य मध्यमे मध्यमा स्मृता
प्रदक्षिणं ततो गच्छेत्कनीयांसं विचक्षणः। त्रिष्वप्येतेषु स्नायीत कुर्याच्चापि प्रदक्षिणम्
प्रयच्छति पितृभ्यो यस्तोयं तेषां तिलान्वितम्। तेपि तुष्टाः पुनस्तस्य प्रयच्छंत्यमितं फलम्
यः स्नात्वा प्रयतो नित्यं ततः पश्येत्पितामहम्। अनुलोमविलोमाभ्यां तथा व्यस्तसमस्तयोः
स्नातव्यं पुष्करे नित्यं ब्रह्मलोकमभीप्सिता। त्रीणि शृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च
पुष्कराणि प्रसिद्धानि न विद्मस्तत्र कारणं। कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करं
शृंगशद्बाभिधानानि शुभप्रस्रवणानि च। धर्मार्थकाममोक्षाणां संकल्पैरफलं नरः
यस्तत्र संत्यजेद्देहं मोक्षं प्राप्नोत्यसंशयम्। प्रयतः संयतस्तस्यां स्नात्वा दद्याद्विजे शुभाम्
गामेकां मंत्रपूतां च लोकानाप्नोतिमोक्षदान्। किमत्र बहुनोक्तेन रात्रावपि हि योर्थिने
अर्थं प्रयच्छते स्नात्वा सोनन्तं सुखमश्नुते। तत्र दानं प्रशंसंति तिलानां मुनिसत्तमाः
कृष्णपक्षे चतुर्दश्यां स्नानं च विहितं सदा। पिण्याकेन गुडेनापि पिंडं योत्र प्रयच्छति
पितॄणां प्रयतो भूत्वा पितृलोकं स यछति। पुष्करारण्यमासाद्य पुनस्तस्मात्सरस्वती
अंतर्द्धानं गता गंतुं प्रवृत्तागपश्चिमामुखी। नातिदूरे ततस्तस्य पुष्करस्य सुशोभना