अनेकशाखाविततश्चतुर्मुख इवापरः। तत्कोटरकुटीकोटि प्रविष्टानां द्विजन्मनाम्
श्रूयंते विविधा वाचः सुराणां रक्तचेतसाम्। वनस्पतिरपुष्पोपि पुष्पितश्चोपलक्ष्यते
जातीचंपकवत्पुष्पैः शाखालग्नैः शुकैः शुभैः। केतकीभिः सुरभिभिरशोभत सरिद्वरा
कोकिलाभिस्स मालेव फेनकैः पुष्पितेव सा। हरेणेव यथा गंगा प्लक्षेणैव हि सा तथा
तत्रांभस्था तदा देवं प्रोवाचाथ जनार्दनम्। समर्पयस्व तं वह्निं देवादेशं करोम्यहम्
एवमुक्तेन सा तेन प्रत्युक्ता विष्णुना तदा। न ते दाहभयं त्याज्यस्त्वयायं वह्निराट्स्वयम्
पश्चिमं सागरं नेतुं वाडवज्वलनं शुभे। एवं क्रमेण गच्छंत्या तदापं प्राप्स्यते शुभे
ततस्तं शातकुंभस्थं कृत्वासौ वडवानलं। समर्पयत गोविंदः सरस्वत्या महोदरे
सा तं गृहीत्वा सुश्रोणी प्रतीच्यभिमुखी ययौ। अंतर्द्धानेन संप्राप्ता पुष्करं सा महानदी
मर्यादापर्वते तस्मिन्संभूता विमला सरित्। पुष्करारण्यं विपुलं सुरसिद्धनिषेवितम्
पितामहेन यत्रासीद्यज्ञसत्रं निषेवितम्। सिध्यर्थं मुनिमुख्यानामागतासौ महानदी
येषु तत्र कृतो होमः कुंडेष्वासीद्विरिंचिना। तानि सर्वाणि संप्लाव्य तोयेनाप्युद्गता हि सा२०० 1.18.
तत्र क्षेत्रे महापुण्या पुष्करे सा तथोत्थिता। तेन तत्पूरणं प्रोक्तं वायुना जगदायुषा
सापि तत्क्षेत्रमासाद्य पुण्यं पुण्या महानदी। सरस्वती स्थिता देवी मर्त्यानां पापनाशिनी
तत्र ये शुभकर्माणः पुष्करस्थां सरस्वतीम्। पश्यंति ते न पश्यंति सुघोरां तामधोगतिं
यः पुनस्तत्र भावेन नरः स्नानं समाचरेत्। स ब्रह्मलोकमासाद्य ब्रह्मणा सह मोदते
यस्तु दद्यात्तत्र दधि ब्राह्मणाय मनोरमम्। सोप्यग्निलोकमासाद्य भुंक्ते भोगान्सुशोभनान्
वरं प्रावरणं योपि भक्त्या दद्याद्द्विजातये। सोपि सद्वस्त्रदानस्य फलं दशगुणं लभेत्
ज्येष्ठकुंडे नरः स्नात्वा यः संतर्पयते पितॄन्। स तानुद्धरते सर्वान्नरकादपि शुद्धधीः
क्षेत्रे पैतामहे पूते पुण्यां प्राप्य सरस्वतीम्। नरः किं प्रार्थयेदन्यत्तीर्थं ब्रह्मसुतोब्रवीत्
तस्मात्सर्वेषु तीर्थेषु स्नातः प्राप्नोति यत्फलम्। तत्सर्वं प्राप्नुयान्मर्त्यो ज्येष्ठकुंडे सकृत्प्लुतः
किमत्र बहुनोक्तेन क्षेत्रं तीर्थं गतिश्शुभा। येनैतत्त्रितयं प्राप्तं प्राप्ता तेन गतिः परा
काले क्षेत्रे तथा तीर्थे स्नात्वा हुत्वापि तत्र यः। प्रयच्छते द्विजायार्थं सोनंतं सुखमश्नुते
कार्त्तिके मासि शुक्ले च वैशाखे शशिभूषणे। चंद्रसूर्योपरागे च काले च कुरुजांगले
क्षेत्रेष्वेतेषु तीर्थानि यान्युक्तानि मुनीश्वरैः। तेषां पुण्यतमं तीर्थमिदमाह पितामहः
कुंडे तु मध्यमे स्नात्वा कार्तिक्यां यः पुमान्द्विजे। प्रयच्छते चापि द्रव्यं सोश्वमेधमवाप्नुयात्
एवं कनिष्ठकेप्यत्र कुंडे स्नात्वा समाधिना। यः प्रयच्छति विप्राय सुरूपामपि शालिकाम्
स प्रयाति नरः क्षिप्रमग्निलोकं मनोरमम्। त्रिःसप्तकुलसंयुक्तो भुंक्ते तत्र महाफलम्
तस्मात्सर्वप्रयत्नेन गमनाय मतिः स्थिरा। पुरुषेण तु कर्तव्या पुष्करावाप्तये शुभा
पुष्करारण्यमासाद्य प्राची यत्र सरस्वती। मतिः स्मृतिः शुभा प्रज्ञा मेधा बुद्धिर्दयापरा