शोभते तन्मुखं तस्याः शोकबाष्पाविलेक्षणं। सितं विकसितं तद्वत्पद्मं तोयकणोक्षितम्
तत्तथाविधमालोक्य पितामहपुरस्सराः। विबुधाः शोकभावस्य सर्वे वशमुपागताः
संस्तभ्य हृदयं तस्याः शोकसंतापितं तदा। पितामहस्तामुवाच मा रोदीर्नास्ति ते भयम्
मान लाभश्च भविता तव देवानुभावतः। नीत्वा क्षारोदमध्ये तु क्षिपस्व ज्वलनं सुते
एवमुक्ता तु सा बाला बाष्पाकुलितलोचना। प्रणम्य पद्मजन्मानं गच्छाम्युक्तवती तु सा
मा भैरुक्ता पुनस्तैस्तु पित्रा चापि तथैव सा। त्यक्त्वा भयं हृष्टमनाः प्रयातुं समवस्थिता
तस्याः प्रयाणसमये शंखदुंदुभिनिस्वनैः। मंगलानां च निर्घोषैर्जगदापूरितं शुभैः
सितांबरधराधन्या सितचंदनमंडिता। शरदंबुजसच्छाय तारहारविभूषिता
संपूर्णचंद्रवदना पद्मपत्रायतेक्षणा। शुभां कीर्तिं सुरेशस्य पूरयंती दिशो दश
स्वतेजसा तद्धृदयान्निःसृता भासयज्जगत्। अनुव्रजन्ती तां गंगा तयोक्ता वरवर्णिनी
द्रक्ष्यामि त्वां पुनरहं प्रयासि कुत्र मे सखि। एवमुक्ता तु सा गंगा प्रोवाच मधुरां गिरम्
यदैवायास्यसि प्राचीं दिशं मां पश्यसे शुभे। विबुधैस्त्वं परिवृता दर्शनं तव संश्रये
उदङ्मुखी तदा भूत्वा त्यज शोकं शुचिस्मिते। अहं चोदङ्मुखी पुण्या त्वं तु प्राची सरस्वति
तत्र क्रतुशतं पुण्यं स्नानदानेन सुव्रते। श्राद्धदाने तथा नित्यं पितॄणां दत्तमक्षयम्
ये करिष्यंति मनुजा विमुक्तास्त्ते ऋणैस्त्रिभिः। मोक्षमार्गं गमिष्यंति विचारो नात्र विद्यते
तामुवाच ततो गंगा पुनर्दर्शनमस्तु ते। गच्छ स्वमालयं भद्रे स्मर्तव्याहं त्वयानघे
यमुनापि तथैवं सा गायत्री च मनोरमा। सावित्र्या सहिताः सर्वाः सखीं संप्रैषयंस्तथा
ततो विसृज्य तान्देवान्नदी भूत्वा सरस्वती। उत्तंकस्याश्रमपद उद्भूता सा मनस्विनी
अधस्तात्प्लक्षवृक्षस्य अवरोप्य च तां तनुम्। अवतीर्णा महाभागा देवानां पश्यतां तदा
विष्णुरूपस्तरुः सोत्र सर्वदेवैस्तु वंदितः। संसेव्यश्च द्विजैर्नित्यं फलहेतोर्महोदयः
अनेकशाखाविततश्चतुर्मुख इवापरः। तत्कोटरकुटीकोटि प्रविष्टानां द्विजन्मनाम्
श्रूयंते विविधा वाचः सुराणां रक्तचेतसाम्। वनस्पतिरपुष्पोपि पुष्पितश्चोपलक्ष्यते
जातीचंपकवत्पुष्पैः शाखालग्नैः शुकैः शुभैः। केतकीभिः सुरभिभिरशोभत सरिद्वरा
कोकिलाभिस्स मालेव फेनकैः पुष्पितेव सा। हरेणेव यथा गंगा प्लक्षेणैव हि सा तथा
तत्रांभस्था तदा देवं प्रोवाचाथ जनार्दनम्। समर्पयस्व तं वह्निं देवादेशं करोम्यहम्
एवमुक्तेन सा तेन प्रत्युक्ता विष्णुना तदा। न ते दाहभयं त्याज्यस्त्वयायं वह्निराट्स्वयम्
पश्चिमं सागरं नेतुं वाडवज्वलनं शुभे। एवं क्रमेण गच्छंत्या तदापं प्राप्स्यते शुभे
ततस्तं शातकुंभस्थं कृत्वासौ वडवानलं। समर्पयत गोविंदः सरस्वत्या महोदरे
सा तं गृहीत्वा सुश्रोणी प्रतीच्यभिमुखी ययौ। अंतर्द्धानेन संप्राप्ता पुष्करं सा महानदी
मर्यादापर्वते तस्मिन्संभूता विमला सरित्। पुष्करारण्यं विपुलं सुरसिद्धनिषेवितम्