तटं त्वया प्रयातव्यं प्रतीच्यां लवणोदधेः। वडवाग्निमिमं नीत्वा समुद्रे निक्षिपस्व ह
एवं कृते सुराः सर्वे भवंति भयवर्जिताः। अन्यथा वाडवाग्निस्तु दहते स्वेन तेजसा
तस्माद्रक्षस्व विबुधानेतस्मादचिराद्भयात्। मातेव भव सुश्रोणि सुराणामभयप्रदा
एवमुक्ता तु सा देवी विष्णुना प्रभविष्णुना। आह नाहं स्वतंत्रास्मि पिता मे व्रियतां स्वराट्
तदाज्ञाकारिणी नित्यं कुमारीह धृतव्रता। पित्रादेशाद्विना नाहं पदमेकमपि क्वचित्
गच्छामि तस्मात्कोप्यन्य उपायश्चिंत्यतामहो। तदाशयं विदित्वाहुस्ते समेत्य पितामहं
नान्येन शक्यते नेतुं वडवाग्निः पितामह। अदृष्टदोषाम्मुक्त्वैकां कुमारीं तनयां तव
सरस्वतीं समानीय कृत्वांके वरवर्णिनीं। शिरस्याघ्रायसस्नेहमुवाचाथसरस्वतीम्
मां च देवि सुराः प्राहुः स त्वं ब्रूहि यशस्विनीम्। नीत्वा विनिक्षिपेदेनं बाडवं लवणांबुनि
पितुर्वाक्यं हि तच्छ्रुत्वा वियुक्ता कुररी यथा। पित्रा तदैव सा कन्या रुरुदे दीनमानसा
शोभते तन्मुखं तस्याः शोकबाष्पाविलेक्षणं। सितं विकसितं तद्वत्पद्मं तोयकणोक्षितम्
तत्तथाविधमालोक्य पितामहपुरस्सराः। विबुधाः शोकभावस्य सर्वे वशमुपागताः
संस्तभ्य हृदयं तस्याः शोकसंतापितं तदा। पितामहस्तामुवाच मा रोदीर्नास्ति ते भयम्
मान लाभश्च भविता तव देवानुभावतः। नीत्वा क्षारोदमध्ये तु क्षिपस्व ज्वलनं सुते
एवमुक्ता तु सा बाला बाष्पाकुलितलोचना। प्रणम्य पद्मजन्मानं गच्छाम्युक्तवती तु सा
मा भैरुक्ता पुनस्तैस्तु पित्रा चापि तथैव सा। त्यक्त्वा भयं हृष्टमनाः प्रयातुं समवस्थिता
तस्याः प्रयाणसमये शंखदुंदुभिनिस्वनैः। मंगलानां च निर्घोषैर्जगदापूरितं शुभैः
सितांबरधराधन्या सितचंदनमंडिता। शरदंबुजसच्छाय तारहारविभूषिता
संपूर्णचंद्रवदना पद्मपत्रायतेक्षणा। शुभां कीर्तिं सुरेशस्य पूरयंती दिशो दश
स्वतेजसा तद्धृदयान्निःसृता भासयज्जगत्। अनुव्रजन्ती तां गंगा तयोक्ता वरवर्णिनी
द्रक्ष्यामि त्वां पुनरहं प्रयासि कुत्र मे सखि। एवमुक्ता तु सा गंगा प्रोवाच मधुरां गिरम्
यदैवायास्यसि प्राचीं दिशं मां पश्यसे शुभे। विबुधैस्त्वं परिवृता दर्शनं तव संश्रये
उदङ्मुखी तदा भूत्वा त्यज शोकं शुचिस्मिते। अहं चोदङ्मुखी पुण्या त्वं तु प्राची सरस्वति
तत्र क्रतुशतं पुण्यं स्नानदानेन सुव्रते। श्राद्धदाने तथा नित्यं पितॄणां दत्तमक्षयम्
ये करिष्यंति मनुजा विमुक्तास्त्ते ऋणैस्त्रिभिः। मोक्षमार्गं गमिष्यंति विचारो नात्र विद्यते
तामुवाच ततो गंगा पुनर्दर्शनमस्तु ते। गच्छ स्वमालयं भद्रे स्मर्तव्याहं त्वयानघे
यमुनापि तथैवं सा गायत्री च मनोरमा। सावित्र्या सहिताः सर्वाः सखीं संप्रैषयंस्तथा
ततो विसृज्य तान्देवान्नदी भूत्वा सरस्वती। उत्तंकस्याश्रमपद उद्भूता सा मनस्विनी
अधस्तात्प्लक्षवृक्षस्य अवरोप्य च तां तनुम्। अवतीर्णा महाभागा देवानां पश्यतां तदा
विष्णुरूपस्तरुः सोत्र सर्वदेवैस्तु वंदितः। संसेव्यश्च द्विजैर्नित्यं फलहेतोर्महोदयः