यत्र ते मुनयश्शान्ता नानास्वाध्यायवादिनः। ते समागत्य ऋषयस्सस्मरुर्वै सरस्वतीम्
साभिध्याता महाभागा ऋषिभिः सत्रयाजिभिः। समास्थिता दिशं पूर्वां भक्तिप्रीता महानदी
प्राची पूर्वावहा नाम्ना मुनिवंद्या सरस्वती। इदमन्यन्महाराज शृण्वाश्चर्यवरं भुवि
क्षतो मंकणको विप्रः कुशाग्रेणेति नः श्रुतम्। क्षतात्किल करे तस्य राजन्शाकरसोस्रवत्
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्। ततस्तस्मिन्प्रनृत्ते तु स्थावरं जंगमं च यत्
प्रानृत्यत जगत्सर्वं तेजसा तस्य मोहितम्। शक्रादिभिस्सुरै राजन्नृषिभिश्च तपोधनैः
विज्ञप्तस्तत्र वै ब्रह्मा नायं नृत्येत्तथा कुरु। आदिष्टो ब्रह्मणा रुद्र ऋषेरर्थे नराधिप
नायं नृत्येद्यथा भीम तथा त्वं वक्तुमर्हसि। गत्वा रुद्रो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि
भो भो विप्रर्षभ त्वं हि नृत्यसे केन हेतुना। नृत्यमानेन भवता जगत्सर्वं च नृत्यति
तेनायं वारितः प्राह नृत्यन्वै मुनिसत्तमः। मुनिरुवाच। किं न पश्यसि मे देव कराच्छाकरसोस्रवत्
तं तु दृष्ट्वाप्र नृत्तोहं हर्षेण महतावृतः। तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्
अहं न विस्मयं विप्र गच्छामीह प्रपश्य मां। एवमुक्तो मुनिश्रेष्ठो महादेवेन कौरव
ध्यायमानस्तदा कोयं प्रतिषिद्धोस्मि येन हि। अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितस्तथा
ततो भस्मक्षताद्राजन्निर्गतं हिमपांडुरं। तद्दृष्ट्वा व्रीडितश्चासौ प्राह तत्पादयोः पतन्
नान्यद्देवादहं मन्ये रुद्रात्परतरं महत्। चराचरस्य जगतो गतिस्त्वमसि शूलधृत्
त्वया सृष्टमिदं सर्वं वदंतीह मनीषिणः। त्वामेव सर्वं विशति पुनरेव युगक्षये
देवैरपि न शक्यस्त्वं परिज्ञातुं मया कुतः। त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोपि ये
सर्वस्त्वमसि देवानां कर्ता कारयिता च यः। त्वत्प्रसादात्सुराः सर्वे भवंतीहाकुतोभयाः
एवं स्तुत्वा महादेवमृषिश्च प्रणतोब्रवीत्। भगवंस्त्वत्प्रसादेन तपो न क्षीयते त्विह
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्। तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा
प्राचीमेवेह वत्स्यामि त्वया सार्द्धमहं सदा। सरस्वती महापुण्या क्षेत्रे चास्मिन्विशेषतः
न तस्य दुर्लर्भं किंचिदिह लोके परत्र च। सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्१५० 1.18.
प्राचीतटे जाप्यपरो न चेह म्रियते पुनः। आप्लुतो वाजिमेधस्य फलमाप्स्यति पुष्कलं
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः। जलाहारो वायुभक्षः पर्णाहारश्च तापसः
तथा स्थंडिलशायी च ये चान्ये नियमाः पृथक्। करोति यो द्विजश्रेष्ठो नियमांस्तान्व्रतानि च
स याति शुद्धदेहश्च ब्रह्मणः परमं पदं। तस्मिंस्तीर्थे तु यैर्दत्तं तिलमात्रं तु कांचनं
मेरुदानसमं तत्स्यात्पुरा प्राह प्रजापतिः। तस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंति हि मानवाः
एकविंशकुलोपेताः स्वर्गं यास्यंति ते नराः। पितॄणां च शुभं तीर्थं पिंडेनैकेन तर्पिताः
ब्रह्मलोकं गमिष्यंति स्वपुत्रेणेह तारिताः। भूयश्चान्नं न चेच्छंति मोक्षमार्गं व्रजंति ते
प्राचीनत्वं सरस्वत्या यथा भूतं शृणुष्व तत्। सरस्वती पुरा प्रोक्ता देवैः सर्वैः सवासवैः