वितते यज्ञवाटे तु स्वागतेषु द्विजादिषु। पुण्याहघोषैर्विततैर्देवानां नियमैस्तथा
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तथा। तत्र चैव महाराज दीक्षिते च पितामहे
यजतस्तस्य सत्रेण सर्वकामसमृद्धिना। मनसा चिंतिता ह्यर्था धर्मार्थकुशलास्तथा
उपतिष्ठंति राजेंद्र द्विजातींस्तत्र तत्र ह। जगुश्च देवगंधर्वा ननृतुश्चाप्सरोगणाः
वादित्राणि च दिव्यानि वादयामासुरंजसा। तस्य यज्ञस्य संपत्या तुतुषुदेर्वता अपि
विस्मयं परमं जग्मुः किमु मानुषयोनयः। वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे
अब्रुवन्नृषयो भीष्म तदा तुष्टास्सरस्वतीम्। सुप्रभां नाम राजेंद्र नाम्ना चैव सरस्वतीम्
ते दृष्ट्वा मुनयः सर्वे वेगयुक्तां सरस्वतीम्। पितामहं भासयंतीं क्रतुं ते बहु मेनिरे
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती। पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम्
पुण्यस्य पुण्यताकारि पंचस्रोतास्सरस्वती। सुप्रभा नाम राजेंन्द्र नाम्ना चैव सरस्वती
यत्र ते मुनयश्शान्ता नानास्वाध्यायवादिनः। ते समागत्य ऋषयस्सस्मरुर्वै सरस्वतीम्
साभिध्याता महाभागा ऋषिभिः सत्रयाजिभिः। समास्थिता दिशं पूर्वां भक्तिप्रीता महानदी
प्राची पूर्वावहा नाम्ना मुनिवंद्या सरस्वती। इदमन्यन्महाराज शृण्वाश्चर्यवरं भुवि
क्षतो मंकणको विप्रः कुशाग्रेणेति नः श्रुतम्। क्षतात्किल करे तस्य राजन्शाकरसोस्रवत्
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान्। ततस्तस्मिन्प्रनृत्ते तु स्थावरं जंगमं च यत्
प्रानृत्यत जगत्सर्वं तेजसा तस्य मोहितम्। शक्रादिभिस्सुरै राजन्नृषिभिश्च तपोधनैः
विज्ञप्तस्तत्र वै ब्रह्मा नायं नृत्येत्तथा कुरु। आदिष्टो ब्रह्मणा रुद्र ऋषेरर्थे नराधिप
नायं नृत्येद्यथा भीम तथा त्वं वक्तुमर्हसि। गत्वा रुद्रो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि
भो भो विप्रर्षभ त्वं हि नृत्यसे केन हेतुना। नृत्यमानेन भवता जगत्सर्वं च नृत्यति
तेनायं वारितः प्राह नृत्यन्वै मुनिसत्तमः। मुनिरुवाच। किं न पश्यसि मे देव कराच्छाकरसोस्रवत्
तं तु दृष्ट्वाप्र नृत्तोहं हर्षेण महतावृतः। तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्
अहं न विस्मयं विप्र गच्छामीह प्रपश्य मां। एवमुक्तो मुनिश्रेष्ठो महादेवेन कौरव
ध्यायमानस्तदा कोयं प्रतिषिद्धोस्मि येन हि। अंगुल्यग्रेण राजेंद्र स्वांगुष्ठस्ताडितस्तथा
ततो भस्मक्षताद्राजन्निर्गतं हिमपांडुरं। तद्दृष्ट्वा व्रीडितश्चासौ प्राह तत्पादयोः पतन्
नान्यद्देवादहं मन्ये रुद्रात्परतरं महत्। चराचरस्य जगतो गतिस्त्वमसि शूलधृत्
त्वया सृष्टमिदं सर्वं वदंतीह मनीषिणः। त्वामेव सर्वं विशति पुनरेव युगक्षये
देवैरपि न शक्यस्त्वं परिज्ञातुं मया कुतः। त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोपि ये
सर्वस्त्वमसि देवानां कर्ता कारयिता च यः। त्वत्प्रसादात्सुराः सर्वे भवंतीहाकुतोभयाः
एवं स्तुत्वा महादेवमृषिश्च प्रणतोब्रवीत्। भगवंस्त्वत्प्रसादेन तपो न क्षीयते त्विह
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत्। तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा